________________
गर्भस्येत्यादि
भो भो जना लोकाः ! देव-देव, देवानामपि पूज्यः स श्रीवर्धमानो महावीरतीर्थकरो भुवि पृथिव्यां वो युष्माकं मुदे हर्षाय, अस्तुतमामतिशयेन भवतु, गर्भस्य षण्मासमधस्त एव षण्मासेभ्य प्रागेव कुवेरो धनेशो रत्नानि पद्धरागादीनि ववर्ष, रत्नानां वृष्टिं चकारेत्यर्थः ॥ १ ॥
-
252
षष्ठः सर्गः
समुल्लसदित्यादि प्रयत्नीयितः प्रयत्नशीलो मर्त्यराट् तस्य पत्नी सा पूर्णमुदरं यस्या सा पूर्णोदरिणी वर्षेव रराज शुशुभे । कथम्भूता - समुल्लसत्पीनपयोधरा, समुल्लसन्तौ पीनौ पयोधरौ कुचौ यस्याः सा, पक्षे समुदितस्थूलमेघा, पुनः कथम्भूता - मन्दन्त्वं शिथिलत्वमञ्चन्तौ पदावेव पङ्कजे यस्याः सा, पक्षे मन्दत्वमञ्चन्ति पदानि येषां तथा भूतानि पङ्कजानि यस्यां सा, एवम्भूता वर्षेव रराज ॥ २ ॥
गर्भार्कस्येवेत्यादि एषा राज्ञी इहावसरे गुणानां सम्पदा सौन्दर्यशीलादिगुणसम्पत्त्योपगुप्ता समावृता सती स्वल्पैरहोभिः कतिपयदिवसैर्गर्भेऽर्भको गर्भार्भकस्तस्य यशः प्रसारैः कीर्तिकलापैरिवाऽऽकल्पितं निर्मितं घनसारसारै: कर्पूरतत्वैराकल्पितं देहं शरीरं समुवाह, गर्भप्रभावेण तस्याः शरीरे शौक्ल्यमजनीत्यर्थः ३ ॥
नीलाम्बुजेत्यादि - तस्या महिष्या नेत्रयुगं नेत्रयोर्द्वयं कर्तृ, पुरा मया नीलाम्बुजानि नीलकमलानि जितानि, अद्य पुनः सितोत्पलानि पुण्डरीकाणि जयामि, इतीव किल, कापर्दको योऽसावुदारोऽसङ्कीर्णो गुणस्य प्रकारो भेदः शुक्लवर्णस्तं बभार दधार ॥ ४ ॥
-
सतेत्यादि - सतां सज्जनानामर्हता पूज्येन सार्धं यत्किल विधेर्विधानं निवसनं सहवासमभ्येत्य नाभिजप्तस्य तुण्डीनाम्मोऽवयवस्य या प्रकृतिगभीरता तस्यास्तु मानमभूत् गाम्भीर्यं त्यक्तोच्छ्रयत्वमन्वभूदित्यर्थः । तुत्तयुक्तमेव यत्तुकिल नाभिजाता अकुलीना प्रकृतिर्यस्य तस्य नीचजातेः कुतोऽपि महता संयोगेऽभिमानो भवत्येव । तथापि महतार्हता समागमेऽपि पुना राज्ञश्चन्द्रमसः कुलमन्वयस्तदुचितेन राजवंशयोग्येन वा मृगीदृशस्तस्या महिष्या मुखेन तत्रापि नतिरेव प्राप्तेत्यहो महदाश्चर्यम् । राजकुलोचितः क्षत्रियो महत्त्वेऽपि नमत्येवेत्यर्थः ॥ ५ ॥
गाम्भीर्यमित्यादि - अथेत्युक्तिविशेषे । अहो इत्याश्चर्ये । मञ्जू मनोहरे दृशौ चक्षुषी यस्यास्तस्या देव्या नाभि:, अन्तर्गभे तिष्ठतीत्यन्तःस्थः स चासौ शिशुस्तस्मिन् । त्रयाणां लोकानां समाहारस्त्रिीलोकी तस्या अप्यचिन्त्यप्रभावं स्मर्तुमपार्यमाणमहत्त्वं सहजमनायाससम्भवं गाम्भीर्य विलोक्य येिव लज्जयेव किल स्वगभीरभावं आत्मीयगम्भीरतां जहौ मुमोच ॥ ६ ॥
यथेत्यादि तस्या इदं तदीयं यदुदरं तस्य वृद्धिरुच्छिायस्तस्य वीक्षाऽवलोकनवृत्तियर्था यथाऽभूत् तथा तथा वक्षोजयोः कुचयोः श्यामञ्च तन्मुखं तस्य दीक्षोपलब्धिरभूत् तदिदमुचितमेव, यतो मध्यस्थाऽनुत्सेकरूपा केन्द्र धरणस्वरूपा वा वृत्तिर्यस्य तस्यापि किं पुनरितरस्येत्यपि शब्दार्थ: । उन्नतत्वं महत्त्वं सोढुमङ्गीकर्तुं कठिनेषु कठोरेषु सत्त्वं सामर्थ्य कुतोऽस्तु ? कुचौ च तस्याः कठिनौ तस्मात्तथात्वं स्यादेव । अर्थान्तरन्यासः ॥७॥
Jain Education International
तस्या इत्यादि - तस्या महाराज्ञ्या उदरप्रदेशो योऽत्यन्तं कृश इति कृशीयान् पुनरपि स बलित्रयोच्छेदी त्रिबलीनां विध्वंसकोजात: । दुर्बल एकस्यापि बलवतो विजेता न भवेत् किं पुनर्बलित्रयस्येत्येतावत्तया खलु तस्य भूपस्य सिद्धार्थस्य मुदे बभूव प्रसन्नतां चकार । किन्त्वेतादृग् उदरे प्रभावः स सर्वोऽपि किलान्तर्भुवः प्रच्छन्नतया तिष्ठतः विवेकस्य विचारस्य नौरिव भवतः श्रीतीर्थकृत एव ॥ ८ ॥
For Private & Personal Use Only
www.jainelibrary.org