SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ 251 सार्धमनुजगाम । सुगात्री मनोज्ञदेहा माता विनोदवार्ताम् अनुसंविधात्री कुर्वती तया समं शनकैरगात् ॥३७॥ चकारेत्यादि - काचिद्देवी तस्याः शयनाय अभितः पुष्पैः प्रशस्यां मनोहरां शय्यां चकार । अन्या पदयोः संवाहने निपीडने लग्ना बभूव यतो निद्राभग्ना नास्तु ॥ ३८ ॥ एकान्वितेत्यादि : एका देवी वीजनं कर्तुमेव व्यजनेन मात्रे वायुप्रदानमेव कर्तुमन्विता प्रयुक्ता बभूव, अपरा देवा विकीर्णान् विपर्यस्तान् केशान् कचान् प्रधर्तुं संयन्तुमन्वितेत्यध्याहारः । एवं प्रत्येककार्ये निष्प्रयासात्परिश्रमं विनैवासां देवीनामपूर्वमद्भतुं चातुर्यं पटुत्वं बभूव खलु ॥ ३९ ॥ श्रियमित्यादि - अम्बा जननी स्वके स्वकीये मुखे वदने श्रियं शोभां समादधाना सम्यग्धारयन्ती, नेत्रयोश्चक्षुषोर्हियं त्रपां समादधाना, स्वके आत्मनि, धृतिं धैर्यं समादधाना, उरोजराजयोः कुचयुगले कीर्तिमौनत्यं समादधाना, विधाने कार्यसम्पादने बुद्धिं धियं समादधाना, वृषक्रमे धर्माचरणे रमां लक्ष्मीं समादधाना सती गृहाश्रमे विबभौ विशेषतः शुशुभे ॥ ४० ॥ सुपप्लवेत्यादि - यथा लता: सुपल्लवाख्यानतया सुन्दरकिसलयशोभया सदैवानुभावयन्त्यो वसन्तभावनामनुभावयन्ति, अत एव कौतुकसम्विधाना मनोविनोदमाचरन्त्यो भवन्ति, तथैव ता देव्यो जननीमुदे मातृचित्तविनोदाय सुपल्लवाख्यानतया कोमलपदकथावर्णनेन जननीसुखमनुभावयन्त्यो निदानाद्विविधकारणान्मधुरां मञ्जुस्भावां तां जननीमन्वगुरनुगता अभूवन् । दृष्टान्तोऽलङ्कारः ॥ ४१ ॥ मातुरित्यादि ता देव्यो मातुर्जनन्या मनोरथमनुप्रविधानदक्षा इच्छानुकूलकार्या चरणानिपुणाः, अभ्युपासनसमर्थनकारिपक्षाः सेवासमर्थनकरणचतुरा आसन् । अतः सा माता तदत्र तासां देवीनां कौशलं नैपुण्यमवेत्य ज्ञात्वा निजं गर्भक्षणं प्रसूतिकालं मुदा हर्षेणातीतवती व्यतीयाय ॥ ४२ ॥ Jain Education International - इति पञ्चमः सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.002761
Book TitleVirodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherGyansagar Vagarth Vimarsh Kendra Byavar
Publication Year1996
Total Pages388
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy