________________
250
कुत इति प्रश्नः । मोहस्याज्ञानस्य शाप: उदयस्तस्मादित्युत्तरम् । जगतां लोकानां मोहक्षतिर्मोहहानि: किं दुरापा दुष्प्रापेति प्रश्नः ॥ २८ ॥
स्यात्सेत्यादि इह संसारे सा मोहक्षतिरपरागस्य विरक्तस्य पुरुषस्य हृदि चिते विशुद्धया चित्तशुद्धया स्यादित्युत्तरम् अपरागो रागाभावः कुत इति प्रश्नः । परमात्मनि बुद्धिः परमात्मबुद्धिः, तया रागाभाव इत्युत्तरम् । इति परमात्मनीना परमात्मविषयिणी बुद्धिः कुतोऽस्त्विति प्रश्नः । उपायात्परमात्मभक्ति- तपःसंयमादिसाधनात्सुतरामत्यन्तमहीना श्रेष्ठा परमात्मबुद्धिर्भवतीत्युत्तरम् ॥ २९ ॥
राग इत्यादि - रागः कियान् किंपरिमाणोऽस्तीति प्रश्नः । स देहस्य सेवा यस्मिन्निति देहसेव : शरीरपोषणरूप इत्युत्तरम् । देहः कीदृगिति प्रश्न : । एष देहः शठो धूर्तो जडो वेत्युत्तरम् । शठः कथमिति प्रश्नः । अयं देहः पुष्टिं पोषणमितः प्राप्तोऽपि नश्यति विपद्यतेऽतः शठ इत्युत्तरम् । किन्तु, अयं सांसारिको जनस्तदीयवश्यस्तस्य देहस्यैव वशीभूतः ॥ ३० ॥
कुतोऽस्येत्यादि
अयं जनोऽस्य देहस्य वश्योऽधीनः कुतः कस्मात्कारणादस्तीति प्रश्नः । जनस्य तत्त्वबुद्धिर्हेयोपादेयज्ञानं नास्त्यतोऽयं देहवश्यो भवतीत्युत्तरम्। पुनस्तद्धीस्तत्तत्त्वबुद्धिः कुतः स्यात् कस्माद्भवेदिति प्रश्नः । यदि जनस्य चित्तशुद्धिः स्यात्तर्हि तत्त्वबुद्धि: स्यादित्युत्तरवाक्यम् । शुद्धेर्द्वाः द्वारं किमिति प्रश्नः । जिनस्य वाग्वाणी तस्याः प्रयोगस्तदनुकूलाचरणमेव चित्तशुद्धेर्मागे इत्युत्तरम् । यथा रोगोऽगदेन तदौषधेनैव निरेति दूरीभवति तथैवेति दिक् । अत्र रूपकालङ्कारः ॥ ३१ ॥
मान्यमित्यादि अर्हतो वचनमहंद्वचनं जिनवाक्यं मान्यं कुतः समस्तु भवत्विति प्रश्नः । यतो यस्मात् कारणात्तत् अर्हद्वचनं सत्यं यत: कारणात् तत्र वस्तु तत्त्वस्यैव कथनं भवेदित्युत्तरम् । तस्मिन्नर्हद्वचनेऽसत्यस्याभाव: कुत इति प्रश्नः । तदीये उक्त कथने विरोधभावो नास्त्यतस्तन्मान्यमस्तीत्यर्थः ॥ ३२ ॥
-
-
किमित्यादि तत्रार्हद्वचने, न विरोधोऽविरोधस्तस्यः भावः किं कथं जीयाद्विद्येतेति प्रश्नः । यतो हि तत्र विज्ञानतः सन्तुलितः प्रभावः वैल्यविशिष्टज्ञानेन यथोचितप्रभावोऽतोऽविरोध इत्युत्तरम् । अहो देव्यः, इह लोके या प्रणीतिर्व्यवहारो गतानुगत्यैवान्योन्यानुकरणेनैव भवति सा प्रणीतिः कल्याणकारी मङ्गलकरी न जायते
॥ ३३ ॥
-
एवमित्यादि एवमित्थं रुचिवेदने इच्छाज्ञाने विज्ञाश्चतुरास्तादेव्य एतां मातरं सुविश्रान्तिं विराममभीप्सुं लब्धुमिच्छ्रं विज्ञाय विशश्रमुः प्रश्नाद्विरता जाता: । हि यतोऽत्र लोकेऽगदोऽपि मित: परिमित एव सेव्यः साम्प्रतमुचितं भवतीति शेषः । अर्थान्तरन्यासः अलङ्कारः ॥ ३४ ॥
अवेत्येत्यादि एका देवी विवेकाद् भुक्तेर्भोजनस्य समयमवेत्य ज्ञात्वा मातुरग्रे नानामृदुव्यञ्जनपूर्ण विविधमिष्टाहारसहितममत्रं पात्रं प्रदधार धृतवाती । एवं निजं कौशलं चातुर्यं प्रकटीचकार । उत्प्रेक्षालङ्कारः ॥३५॥
मातेति - माता तदीयं भोजनसम्बन्धि रसं समास्वाद्यानुभूय यावत्सुतृप्तिं समगाज्जगाम तावदन्या देवी मृदीयः कोमलं ताम्बूलं प्रददौ । यत्प्रकृतानुरक्ति प्रकृत्यनुकूलं वस्तु तत् प्रसत्तिप्रदं प्रसाददायकं भवति ॥ ३६ ॥ यदेत्यादि
भोजनान्ते यदाम्बा, उपसान्द्रे गृहोद्याने प्रविहर्तुमारेभे तदा काचिद्देवी सुकरावलम्बा तया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org