________________
errerrrrररररररर|249
सदुक्तय इत्यादि - रदालिरश्मिच्छलदीपवंशा, दन्तपङ्क्तिव्याजेन दीपसमूहतुल्या, या च अलसज्ञा न, आलस्यज्ञानरहिता सा श्रीमातुर्जनन्या रसज्ञा जिह्वा.सदुक्तये, सती चासावुक्तिस्तस्यै, अयनं अवकाशं मार्ग वा दातुमिव एवं प्रकाराऽभूत् । वक्ष्यमाणप्रकारेण प्रोवाचेत्यर्थः ॥ २० ॥
यथेच्छमित्यादि - भो सुदेव्यः हे देवलक्ष्म्यः, यथेच्छमिच्छानुरूपमापृच्छत प्रश्नसमाधानं कुरुत, युष्माभिरेव प्रभुर्जिनः सेव्यः सेवनीयोऽस्ति । अहमपि प्रभोरहत एवोपासिकाऽस्मीति शेषः । अतः शङ्काप्रश्न-समाधानरूपया नावा सङ्कोचो वार्धिरिवेति सङ्कोचवार्धिर्लज्जासागरः प्रतरेत तरीतुं शक्नुयादित्यर्थः ॥ २१ ॥
न चातकीनामित्यादि - यदि पयोदमाला मेघपङ्क्तिश्चातकीनां चातकस्रीणां पिपासां जलपानतृष्णां न प्रहरेत् न नाशयेत्तर्हि जन्मना सा किमु ? तस्या जन्मना कोऽर्थः ? न कोऽपीत्यर्थः । तथैवाहमपि युष्माकमाशङ्कितं संशयमुद्धरेयम्, अपहरेयम् । किञ्च तर्के सदसदूहे रूचिमिच्छां किं कथं न समुद्धरेयं धारयेयमवश्यमेव धारयेयमित्याशयः ॥ २२ ॥
नैसर्गिकेत्यादि - वितर्के, ऊहापोहे मेऽभिरूचिः कामना नैसर्गिकी स्वाभाविकी अस्ति । यथेह कर्के शुक्लाश्वे दर्पणे वा स्वाभाविकी अच्छता स्वच्छता भवति । अद्य विश्वम्भरस्य जगत्पालकस्य प्रभोः सती शोभना कपा दया, सुधेवामतमिव मे साहाय्यकरी साहाय्यदानशीला विभातु राजताम् । अत्र दृष्टान्तः, उपमा चालङ्कारः ॥ २३ ॥
इत्येवमित्यादि - अयि बुद्धिधार हे बुद्धिमन् मातुरित्येवं पूर्वोक्तप्रकारेण, आश्वासनतः साहाय्यदानवचनतः सुरीणा देवीनां सङ्कोचततिर्लज्जाभावविस्तरः सुरीणा विनष्टा बभूव । यथा प्रभातो दयत: उष:कालागमात्, अन्धकारसत्ता तम:स्थितिर्विनश्येत्रश्यति तथैवेति भावः अत्रापि दृष्टान्तोऽलङ्कारः ॥ २४ ॥
शिर इत्यादि - तदैव तस्मिन्नेव काले तासां देवीनां भक्तिरेव तुला तत्र स्थितं शिरो मस्तकं गुरुत्वादादरगौरवानतिं नम्रत्वमाप । सा कुङ्मलकोमला कलिकामृद्वी करद्वयी हस्तयुगलं समुच्चचाल, नत्यर्थमूर्ध्वमगमत्। नमस्कारार्थं पाणियुगलं शिरसा संयोजयामासुरित्यर्थः । चेति समुच्चये । एषा युक्तियोजनोचितैव । रूपकोऽलङ्कारः ॥ २५ ॥
मातुरित्यादि - भो जिनराज, भो देव, कुमारिकाणां सरोज इव शस्तौ कमलसुन्दरौ हस्तौ करौ चन्द्रमिवेन्दुमिव मातुर्जनन्या मुखमाननमेत्य प्राप्यैव तु सङ्कोचं कुङ्मलीभावमाप्तौ, यदेतद् युक्तमेव विभाति । यतो हि चन्द्रोदये कमलानि सङ्कु चन्त्येव नियमात् । अत्र उपमालङ्कारः ॥ २६ ॥
ललाटमित्यादि - तासां देवीनां ललाटमलिकमिन्दोरुचितमिन्दूिचितं चन्द्रतुल्यमेव, तथापि तन्मातुर्जनन्याः पादावब्ज इव पादाब्जे तयोश्चरणकमलयोरवाप प्राप्तम् । अयं भावः - लोके चन्द्रः कदाचिदपि कमलं नाप्रोति, परं तासां भालचन्द्रो मातुश्चरणकमलयोः प्राप्त इत्याश्चर्यम् । सा पूर्वोक्ताशाऽभूतपूर्वा अद्भु तेत्यवलोकनायाधुना तासां सकौतुका वाग्वाणी उदियाय प्रकटीबभूव, वक्ष्यमाणप्रकारेणेति शेषः । अत्र उपमा-उत्प्रेक्षा चालङ्कारः ॥ २७ ॥
दुख:मित्यादि - तदेवाह-हे मातः, जनो लोको दुःखं कष्टं कुतः कस्मादभ्येति प्राप्नोतीति प्रश्नः । पापादिति मातुरुत्तरम् । पापे कल्मषे धीर्बुद्धिः कुत इति प्रश्नः । अविवेकस्य तापः प्रतापस्तस्मादित्युत्तरम् । सोऽविवेकोऽज्ञानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org