________________
248 Cr
तनुमित्यादि - पराऽपरा जनन्यास्तनुं देहमुद्वर्तयितुमभ्यङ्गार्थं गता, कयाचित् राज्ञ्या अभिषेकाय कक्लृप्तिर्जलसमूह आपि आनीतः । अत्र जननीशरीरे जडप्रसङ्गो मूर्खसंगो ङलयोरभेदाज्जलप्रसङ्गो वा कुतः समस्तु तिष्ठतु, इति तर्कवस्तु चित्ते कृत्वा । पुनः कयाचिद्देव्याः प्रशस्या अतिश्रेष्ठा गात्रततिरङ्गसमूह: प्रोञ्छनकेन वस्त्रेण सन्मार्जित: शोधितः । अन्या देवी तस्यै राज्यै, अथानन्तरं सुशातं निर्मलं दुकूलं पट्टवस्त्रं समदाद् ददौ, अतोऽस्या गुणवत्सु पुरुषेषु पटेषु वा समादर आसीदिति शेषः ।। १० ११ ॥
बबन्धेस्यादि काचिद्देवी तस्या जनन्या निसर्गत: स्वभावतो वक्रिमभावदृश्याम् कुटिलभावदर्शनीयाम् कबरीं केशबन्धं बवन्ध, वेणीगुम्फनं चकोरेत्यर्थः । तथा वदान्या चतुरा अन्या देवी तस्याश्चञ्चलयोर्दृशोर्नेत्रयोरञ्जनं चकार कज्जलं चिक्षेप । कीदृशमतिशितं अतिकृष्णम् । कृष्णाञ्जनेन चक्षुषोः शोभातिशयदर्शनादिति
भावः ॥ १२ ॥
श्रुतीत्यादि तस्याः श्रुती कर्णौ सुशास्त्र श्रवणात् शोभनागम श्रवणात् पुनीते पूते, अतएव कयाचिद्देव्या पयोज पूजां कमलार्चनां नीते । तस्याः कर्णौ कमलाभ्यामलङ्कृतावित्यर्थः । काचिद्देवी, सर्वेष्वङ्गेषु विशिष्टतां लातीति तस्मिन् विशिष्टताले परमशोभने भाले ललाटे तिलकं विशेषक च चकार ॥ १३ ॥
-
अलञ्चकारेत्यादि अन्यसुरी काचिदपरा देवी नूपुरयोर्द्वयेन नूपुरयुगलेन रयेण वेगेन तस्याश्चरणौ भूषयाञ्चकार । इह तस्याः कुचयोररं शीघ्रं संछादयन्ती आब्रियमाणा कण्ठे मृदुकोमलपुष्पहारं पुष्पमालां चिक्षेप न्याधात् ॥ १४ ॥
काचिदिति - काचिद्देवी, इहास्या जनन्या भुजे बाहौ बाहुबन्धं केयूरमदात्, बबन्धेत्यर्थः । पराऽपरा करे तस्या हस्ते कङ्कणं वलयमाबबन्ध अबध्नात् । तानि प्रसिद्धानि वीरमातुस्तीर्थकरजनन्या वलयानि कङ्कणाभूषणानि, माणिक्यमुक्तादिर्विनिर्मितानि हीरकपद्मरागादिमणिभिर्विरचितान्यासन्निति भावः ॥ १५ ॥
-
-
तत्रेत्यादि तत्रार्हतस्तीर्थकरस्य, अर्चासमये, पूजाकाले तदा अर्चनाय पूजनाय योग्यान्युचितानि वस्तूनि प्रदाय दत्त्वा, उत्साहयता सोत्कण्ठाः देव्यः सुदेव्यः श्रेष्ठदेवाङ्गनास्तास्तया जनन्या समं सार्धं जगत एकः सेव्य इति जगदेकसेव्यस्तं जगदेकनाथं प्रभुमाभेजुः सेवितवत्यः ॥ १६ ॥
एकेत्यादि - तदैका देवी मृदङ्गं मर्दलवाद्यं प्रदधार धृतवती, अन्या वीणां महतीं दधार, प्रवीणा चतुराऽन्या समुञ्जीरं वाद्यविशेषं दधार । जिनप्रभोरर्हतो भक्तिरसेन युक्ता काचिन्मातुः स्वरे गातुं प्रयुक्ता प्रवृत्ता अभूत्, गानं कर्तु लग्ना गातुमारेभे ॥ १७ ॥
चकारेत्यादि - काचिद युवतिर्देवी, स्वकीयसंसत्सु निजसभासु कृतैकभाष्यम्, विहितैकविस्तारं, जगद्विजेतुः संसारजयशीलस्यार्हतो दास्यं कैङ्कर्यं दधद्धारयत् आशु शीघ्रं पापस्य हास्यं तिरस्कारं कुर्वाणं विदधानं सुलास्यं मनोहरनृत्यं चकार ॥ १८ ॥
अर्चावसान इत्यादि - उत अथ अर्चायाः पूजाया अवसाने अन्ते गुणरूपयोश्चर्चाद्वारार्हतो गुणरूपवर्णनकरणेन विनष्टवर्चाः मतिः समस्तु सामस्त्येन नष्टपापमला मतिरस्तु मातुरिति इङ्गितं चेष्टामेत्य ज्ञात्वा जातु कदाचिदिह नृत्यविषये जोषमपि मौनमपि ययुः प्राप्ताः तूष्णीम्भावेन स्थिता इत्यर्थः ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org