________________
अथाभवदिति - अथ इति शुभसम्वादे, व्योम्नि आकाशे सूर्यमतिशेते इति सूर्यातिशायी महाप्रकाश : महांश्चासौ प्रकाशः महाप्रकाशः समुद्योतः तदा तस्मिन् काले सहसा अकस्मादेव जनामां दर्शकानां हृदि हृदये किमेतत् इत्थं एवं प्रकारेण काकुभावं वितर्कं कुर्वन् समुत्पादयन् सन् प्रचलत्प्रभावः प्रचलति प्रसरति प्रभावो यस्य स उत्तरोत्तरवर्द्धनशीलः इत्यर्थः स प्रसिद्धः अभवत् ॥ १ ॥
247
पञ्चमः सर्गः
क्षणोत्तरमित्यादि - स प्रसिद्धः श्रीदेवतानां श्रीह्रीप्रभृतीनां निवह: समूह: क्षणोत्तरं क्षणानन्तरं सन्निधिं समीपमाजगाम । तदा स नरेश: सिद्धार्थ आदरे सम्माने उद्यतस्तत्परः, सन्, तासां देवतानामातिथ्यविधौ अतिथिसित्कारे ऊर्ध्वबभूव, न ऊर्ध्वोऽनूर्ध्वः, अनूर्ध्व ऊर्ध्वोबभूवे त्युर्ध्वबभूव, ऊर्ध्वमुखः सन् उत्तिष्ठतिस्म ॥ २ ॥
हेतुरित्यादि - नराणामीशो नरेश इति वाक्यं प्रयुक्तवान् उवाच । तदेवाह - हे सुरश्रियो देवलक्ष्म्यः, तत्र भवतीनां नरद्वारि मानवगृहे समागमाय - आगमनाय को हेतुः किलेति सन्देहे । इतिकाय एवंरूपस्तर्क ऊहो मम चित्तं हृदयं दुनोति पीडयति ॥ ३ ॥
गुरोरित्यादि हे विभो, हे राजन्, गुरुणां श्रीमदर्हतां गुरोर्जनकस्य भवतः श्रीमतो निरीक्षा निरीक्षणं दर्शनमित्यर्थः । अस्माकं भाग्यविधेर्देवविधानस्य परीक्षास्तीति शेषः । श्रीमद्दर्शनजन्यपुण्यार्जनमेवास्माकमागमनहेतुरित्यर्थः । तदर्थमेव भवद्दर्शनार्थमेवेयमस्माकमागमनरूपा दीक्षा वर्तते । अन्या काचिद् भिक्षा न प्रतिभाति, न रोचते ॥ ४ ॥
अन्तःपुर इत्यादि - तीर्थकृतो भगवतोऽवतारः अन्तःपुरे श्रीमद्राज्ञीप्रासादे स्यात्, अतस्तस्य भगवतः सेवा परिचर्यैव सुरीषु देवाङ्गनासु शोभनः सारस्तत्त्वार्थो विद्यते । शक्रस्येन्द्रस्याज्ञया निर्देशेन तवाज्ञा तां भवदनुज्ञां लब्धुमिच्छुर्लिप्सुरयं सुरीगणो देवलक्ष्मीसमूहो भाग्याद्दैवात् सफलोऽपि स्यात् कृतार्थोऽपि स्यादिति । सम्भावनायां लिङ् ॥ ५ ॥
इत्थमित्यादि
अथेत्थमनेन प्रकारेण स सुरीगणः कञ्चुकिना सनाथः युक्तो भवन् मातुर्जनन्या निकटं समीपं समेत्य प्राप्य, प्रणम्य वन्दित्वा तस्याः पदौ तयोस्तच्चरणयोः सपर्यायां परः पूजातत्परो बभूवेति नृषु वर्याः नृवर्या महापुरुषा जगुरवदन् ॥ ६ ॥
न जात्वित्यादि - देव्यो राज्ञीं प्रति कथयन्ति, हे राज्ञि वयं जातु कदापि मनागपि ते दुःखदं कष्टप्रद कार्यं नाचरामो न कुर्मः सदा तव सुखस्यैव स्मरामः, तव आनन्दाय एव वयं चिन्तयामः, ते तवानुग्रहं कृपामेव शुल्कं यामो जानीमः । त्वदिङ्गतस्त्वत्संकेततोऽन्यत्र वदामो न कथयामः ॥ ७ ॥
दत्त्वेत्यादि ता देव्यस्तस्यै राज्ञ्यै निजीयमात्मीयं हृदयं चित्तमभिप्रायं वा दत्त्वा किञ्च शस्यैः श्रेष्ठे: कार्यैस्तस्या हृदि हृदये पदं स्थानं लब्ध्वा सुधन्याः कृतकृत्या देव्यो विनत्युपज्ञैः प्रणतिपुरस्सरैर्वचनैर्जनन्या मातुः सेवासु परिचर्यासु विबभुः शुशुभिरे ॥ ८ ॥
प्रग इत्यादि काचिद्देवी प्रगे प्रभाते राज्यै आदरेण दर्पणं मुकुरं रयेण वेगेन मञ्जुदृशो मनोज्ञनेत्राया मुखं द्रष्टुं ददौ । काचित् रदेषु दन्तेषु कर्तुं विधातुं मृदु मञ्जनं ददौ तथा काचित्वक्त्रं मुखं क्षालयितुं धावितुं जलं पानीयं ददौ ॥ ९ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org