________________
स
ररररररररररररररररररररर पदाकदत्यादि- धुरत्नं सूर्यः पौष्ये समये पुष्पप्रसवकाले वसन्ततौ कुबेरकाष्ठाया उत्तरदिशाया आश्रयणे प्रयत्नं विदधाति, उत्तरायणो भवतीति, कुत इति चेत् प्रताकव सास्तेषां दर्पण विषेणाङ्कितो योऽसौ चन्दनो नाम वृक्षस्तेनारक्तैरभिस्पृष्टैर्याम्यैर्दक्षिणदिक्सम्भवैः समीरैर्वायुभिस्तत्कालसञ्जातैस्तैः प्रसिद्धैभीतिभाग् भयसंत्रस्त इव यतः ॥ १६ ॥
जनीत्यादि- जनीसमाजस्य स्त्रीवर्गस्यादरणं स्वीकारस्तस्य प्रणेतु:समादेशकर्तुःस्मर एव विश्वस्य जेताऽधीनकर्ता तस्यासौ वसन्तः सहायः सहयोगकारी । वनीविहार इत्यनेनोद्यानगमनं गृह्यते तस्योद्धरणे प्रकटीकरणे एक एव हेतुरमं तु पुनर्वियोगिवर्गायैकाकिजनाय धूमकेतुरग्रिरिव सन्तापकः ॥ १७ ॥
माकन्देत्यादि - माकन्दानां रसालवृक्षाणां वृन्दस्य प्रसवं कारकमभिसरतीति तस्याम्रपुष्पास्वादकस्य पिकस्य कोकिलस्य मोदाभ्युदयं प्रकर्तुं प्रसन्नतां वर्धयितुं तथैव स्मरभूमिभर्तुः कामदेवस्य नरपते: सखाऽसौ कुसुमोत्सवर्तु यस्मिन् पुष्पाणामुत्सवो भवति स एष ऋतुः सुखाय विषयभोगाय निभालनीयः ॥ १८ ॥
यत इत्यादि - यतः कारणाद् अभ्युपात्ता नवपुष्पाणां ताति: समूहो येनैवंभूतः कन्दर्प एव भूपो राजा विजयाय दिग्विजयं कर्तुंयाति गच्छति । पिकद्विजाति: कोकिलपक्षी कूहरिति यच्छब्दं करोति स एष शब्द: शङ्खध्वनिरिवाविभाति शोभते ॥ १९ ॥
नवप्रसङ्ग इत्यादि - यथा कामी जनः परिहष्टचेताः प्रसन्नचित्तः सन् नवप्रसङ्गे प्रथमसमागमे नवां नवपरिणीतां वधूं जनीं मुहुर्मुहुश्चुम्बति तथैव चञ्चरीको भ्रमरः कोर्भूम्या माकन्दजातामाम्रवृक्षोद्भवां मञ्जरी मुहुर्मुहुश्चुम्बति ॥ २० ॥
आमस्येत्यादि - कलिकाया अन्तो मध्येऽलिभ्रमरो गुञ्जति यस्य तस्य गुञ्जत्कलिकान्तराले, आम्रस्य विशेष्यस्य सहकारस्य, एतत्किलालीकं व्यर्थं न भवति, कुतो यतो दृशोनेंत्रयोर्वर्त्म मार्गस्तस्मिन् कर्मक्षण एव नयनगोचरतां प्राप्तावेव पान्थाङ्गिने पान्थाय परासुत्वं प्राणरहितत्वं करोतीति तस्य तावदिति वयं वदामः ॥ २१ ॥ __ सुमोद्गम इत्यादि - स्मरस्य कामस्य बाणानां वेशः स्वरूपं पञ्चविध इत्याह - प्रथमस्तु सुमोद्भमः पुष्पोत्पत्तिः, द्वितीयस्तावद् भृङ्गानामुर्वी गीतिभ्रंमरतुमुलगुञ्जनं, तृतीयः अन्तकस्यायमन्तकीयो यमसम्बन्धी, विरहिणामन्तकारित्वात् मरुन्मलयानिलः, चतुर्थो जनीनां स्वनीतिवेषभूषा, शेषः पञ्चम एष पिकस्वनः कोकिलशब्द इति ॥ २२ ॥
अनन्ततामित्यादि - साम्प्रतमिदानीं स्मरस्यायुधैः पुष्पैरनन्ततामसंख्यत्वमवाप्तवद्भिपयुञ्जानैरतएव स्फुरद्भिर्विकसद्भिर्विमुक्तया परित्यक्तया पञ्चऽसंख्याकतया मृत्यु वेति पञ्चतया, इत: समारभ्य क: समलङ्क्रियेत वियोगिनां विरहिणां वर्गात्समूहादपरो न कोऽपि, किन्तु स्त्रीविरहितजन एव म्रियेतेति ॥ २३ ॥
समन्तत इत्यादि- हे समक्ष, सम्मुखे वर्तमानमहाशय, सदा सर्वदैव पिकस्य कोकिलस्योदयभृत्प्रसन्नताकारक विधानं यत्र तस्मिन्माघान्माघमासाद्विनिवर्तमानेफाल्गुनमासत:प्रारब्धेऽस्मिन्नृतौ पुनीतस्य पावनरूपस्य माकन्दस्याम्रवृक्षस्य विधानं करोतीति विधायिवस्तु तादृक् सुमनस्त्वं फुल्लपरिणामः समन्तत एवास्तु । तथा माया लक्ष्म्याः कन्दस्य परिणामस्य विधायि समुनस्त्वं देवत्वमस्तु यतो हे समक्षमः समाना क्षमा यस्य तादृङ् मित्र, अघात्पादद्दू रवर्तिनि सदा कस्य सुखस्योदयमृद्विधानं यत्र तस्मिन् सुखाधार इति ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org