________________
255
errrrr
ऋतुश्रिय इत्यादि अत्र वसन्तेऽदो यत्पौष्पं रजः पुष्पपरागः अनल्पं प्रचुरं प्रसरति तत्कीदृशं प्रतीयत
इत्याह
तद्र ऋतुश्रियो वसन्तलक्ष्स्याः श्रीकरणं शोभाधायकं चूर्णमिव, तूर्ण तत्कालं वियोगिनां विरहिणां भस्मवत्, श्रीमीनकेतोः कामस्य ध्वजवस्त्रकल्पं पताकाण्टसदृशं प्रतीयत इति शेषः ॥ २५ ॥
श्रेणीत्यादि - अस्मिन्नृतौ समन्तात्परितो याऽलीनां द्विरेफाणां श्रेणी पङ्क्तिर्विलसति सा पान्थोपरोधाय प्रोषितजनगमनवारणायादीना पुष्टा कशेव वेत्रिकेव प्रतीयत इति शेषः । असौ वसन्तश्रियो रम्या मनोज्ञा वेणीव संयतकेशपाश इव, कामो गजेन्द्र इवेति कामगजेन्द्रः, कामगजेन्द्रं गच्छति बन्धनार्थं प्राप्नोतीति कामगजेन्द्रगम्या श्रृङ्खलेव प्रतीयते ॥ २६ ॥
-
प्रत्येतीति - लोको विटं कामिनं पाति रक्षतीति विटपोऽयं च विटपो वृक्ष इत्युक्ते : साराल्लेशात्कारणात्तावत्प्रत्येति विश्वासं करोति । अथ च पुनरङ्गारतुल्यानां प्रसवानां पुष्पाणामुपहाराद्धेतोः पलमश्नाति मांसं खादतीति पलाशोऽयमिति नाम्नः स्मरणादयमेव लोको भयभीतः सन् स्वां स्वकीयां महिलां स्त्रियं सहायं सहकारितया समीहतेऽभिवाञ्छति रन्तुकामो भवतीत्यर्थः ॥ २७ ॥
मदनेत्यादि - एष वसन्ताख्यः क्षणः समयः सुरतवार इव स्त्रीपुरुषसङ्गम इव समुद्भतः सत्राविरभूज्जातः यतो मदनस्य सहकार तरोः पक्षे कामस्य मर्मणां विकासैः समन्वितः कौरकैर्हावादिभिर्वा युक्तः । कुहुरितं कोकिलरवः सङ्गमध्वनिर्वा तस्यायोऽभिवृद्धिस्तद्युतया कारणेन सविटपः पलाशादितरुसहित: कामिजनसहितश्च कौतुकलक्षणः पुष्पपरम्पराचिह्नितो विनोदवाँश्चेति किलात्र तस्मात् ॥ २८ ॥
कलकृतामित्यादि - अत्र वसन्ते कलकृतां मधुरं गायन्तीनां मृगस्य दृशाविव दृशौ यासां तासां हरिणाक्षीणां कामिनीनामित्येवं झङ्कृतानि नूपुराणि यस्मिन् यथा स्यात्तथा नूपुरझङ्कारं क्वणितकिंङ्किणिकङ्कृतकङ्कणं शब्दायमानक्षुद्रघण्टिकाकंकृतवलयम् श्रुत्वेत्यध्याहारः । इनः सूर्यस्तासां मुखपद्भदिदृक्षया मुखकमलंद्रष्टुकामनया रथं स्यन्दनं मन्थरं मन्दगामिनं कृतवान् किल ॥ २९ ॥
नन्वित्यादि - अस्मिन् वसन्ते रसालदल आम्रपल्लवेऽलिपिकावलिं भ्रमरकोकिलपंक्ति विवलितां परितः सङ्गतां कथम्भूतां ललितां मनोहरामिमामहं मदनस्य कामस्य सुमाशये पुष्पराशौ भुवि पृथिव्यां वशीकरणोचितमन्त्रकस्थितिं कामिजन वशीकरणमन्त्राक्षरतुल्यामित्यये प्रत्येमि जानामीत्यर्थः । उत्प्रेक्षालङ्कार ॥ ३० ॥
नहीत्यादि अत्र मधौ पलाशतरोः किंशुकवृक्षस्य मुकुलोद्धति: कुमलोत्पत्तिर्नहि, तर्हि किमित्याहकिन्तु सती समयोचिता पतिव्रताङ्गना यौवनकालोचिता सुरभिणा नायकेन कलिता रचिता अपि अतिलोहिता रक्ता नखरक्षतसन्ततिर्नखाघातव्रणपङ्क्तिर्लसति शोभते । अपहृत्यलङ्कार ॥ ३१ ॥
-
अयीत्यादि अयि लवङ्गि, भवत्यप्यद्य शिशिर इव शैशवे बाल्ये विकलिते व्यतीते सति भ्रमरसङ्गवशाद् द्विरेफस्पर्शालिङ्गनादिवशाद् अतिशयोत्रतिमन्तः स्तवका गुच्छा एव स्तना यस्याः सैवम्भूता सती मदनस्तवे कामस्तुतौ राजते वर्तते इत्यर्थः ॥ ३२ ॥
रविरित्यादि - यदयं रविरुत्तरां दिशं गन्तुमुद्यतोऽभवत् तदासौ दक्षिणा दिगपि विप्रियनिः श्वसनः प्रियविरहनि: श्वासस्वरूपं गन्धवहं मलयानिलं ननु वहतितराम् अतिशयेन वहतीत्यर्थः ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org