________________
Carrrrrrrrrrrrr1256rrrrrrrrrrrrrrrrrr
मुकुलत्यादि - स्थलपयोजवनेऽब्जिनी कमलिनी मुकुलपाणिपुटेन कोरकरूपहस्तसम्पुटेन रुचाम्बुजजिदृशां स्वकान्तिपराजिकमलनेत्राणां युवतीनां दृशि नेत्रे, नेत्रेष्वित्यर्थः । रजः परागं ददाति क्षिपतीन्यर्थः स्मरधूर्तराट् शठशिरोमणिः कामरूपः शठराजो रसात्कौतुकात्क्तद्-हृदयधनं तासामम्बुजजिद्दृशां कमलनयनानां हृदयरूपवित्तं हरति ॥ ३४ ॥
अमिसरन्तीत्यादि - अत्र कुसुमक्षणे वसन्ते सरसभावं विभ्रतीति तेषां सरसभावभृतां रसिकभावधारिणां कोकिलपित्सतां पिकानां मधुरारवैः कलकूजितैः समुचिताः शब्दायमानाः सहकारगणा आम्रवृक्षसमूहा रुचिरतां मनोज्ञतामभिसरन्ति प्राप्नुवन्ति ॥ ३५ ॥
विरहिणीत्यादि - अयं वसन्ततुविरहिणीनां परितापं सन्तापं करोतीति तथाभूतः सन् यदिहापरिहारभृदनिवार्य पापमकरोत्, एषको वसन्तो लगदलिव्यपदेशतया संलग्नभ्रमर-व्याजतया यदघं दधत् धारयन् सम्प्रति तत्परिणामेन विपद्यते नश्यतीत्यर्थः ॥ ३६ ॥
ऋद्धिमित्यादि - सैषा वनी वारजनी वेश्येवान्वहं प्रतिदिनं श्रीभुवं सम्पत्तिभूमिकामृद्धिं परिवृद्धिं गच्छति। स्तेयकृता चौरेण तुल्यो भवन् रागदः कामः खरैस्तीक्ष्णैः शरैः पान्थानं प्रतर्जति भीषयति रसराजः श्रृङ्गाररसः सोऽस्मिन् संसारे नित्यं निरन्तरमतिथिसात् प्रतिष्ठापनमेति, अतिथिरिवादृतो भवति । सकलोऽपि नोऽस्माकं बन्धु मित्रवर्गः स ऋतुकौतुकीव ऋतुः शारीरिकशोभा तस्यां कौतुकीव नर्मश्रीविनोदवशंगतः सन्मुदं याति हर्षितो भवति । षडरचक्रबन्धः ऋतुसम्वदननामा ।। ३७ ॥
चैत्रेत्यादि - सा भूपतिजाया प्रियकारिणी चैत्रशुक्लपक्षस्य त्रयोदश्यां तिथौ, उत्तमोच्चसकलग्रहनिष्ठे श्रेष्ठोच्चस्थानस्थितग्रहे मौहूर्तिकोपदिष्टे ज्योतिर्विदादिष्टे समये सुतं पुत्रमसूत सुषुवे ॥ ३८ ॥ ___ रविणेत्यादि - तदा सा राज्ञी सता श्रेष्ठेन तेन सुतेन, रविणा सूर्येण, इन्द्रशासिका ककुबिव पूर्णदिगिव, स्फुटपाथोजकुलेन प्रफुल्लकमलसमूहेन वापिकेव, नवपल्लवतो नूतनकिसलयैलता यथा वल्लीव शुभेन मनोहरेण पुत्रेवाऽऽशुशुशुभे अशोभत ॥ ३९ ॥
सदनेकेत्यादि - असो महीभुजो जनी राज्ञी प्रियकारिणी रजनी रात्रिरिवासीत्तदानीमिति यावद्यतो लसत्तमातिशयप्रशंसनीया स्थितिर्यस्याः सा पक्षे लसति स्फूर्तिमेति तमोऽन्धकारो यस्यामेतादृशी स्थितिर्यस्याः । रुजः प्रतिकारिणी पुत्रजननेऽपि यस्यै किञ्चिदपि कष्टं नासीत् पक्षे रुजो व्यापाराद्यायासस्यापलापिकाऽथ च पुन: सन्ति प्रशंसायोग्यानि अनेकान्यष्टोत्तरसहस्रं संख्याकानि लक्षणानि शुभसूचकचिन्हानि तेषामन्विति: स्थितिर्यत्र तादृशेन तनयेन पक्षे सतां नक्षत्राणांमनेकेषां सुराणां क्षणस्योत्सवस्यान्वितिर्यत्र तेन तनयेन शशिना चन्द्रमसा रात्रौ पिशाचादीनां साञ्चारो भवतीति ॥ ४० ॥
सौरभेत्यादि - तस्य बालकस्य वपुष्यङ्गे पद्भस्येव सौरभावगतिः सुगन्धानुभवोऽभूत् । याऽसौ समस्तलोकानां नेत्रालिप्रतिकर्षिका चक्षुर्धमराकर्षिकाऽभूत् ॥ ४१ ॥ - शुक्तरित्यादि - शुक्तेमौक्तिकवत्तस्या देव्या उद्भवतो जायमानस्य निर्मलस्य सद्भिरादरणीयस्य वपुष्मतो बालकस्य पवित्रता शुद्धताऽऽसीत् ॥ ४२ ॥
इति षष्ठः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org