Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 345
________________ गर्भस्येत्यादि भो भो जना लोकाः ! देव-देव, देवानामपि पूज्यः स श्रीवर्धमानो महावीरतीर्थकरो भुवि पृथिव्यां वो युष्माकं मुदे हर्षाय, अस्तुतमामतिशयेन भवतु, गर्भस्य षण्मासमधस्त एव षण्मासेभ्य प्रागेव कुवेरो धनेशो रत्नानि पद्धरागादीनि ववर्ष, रत्नानां वृष्टिं चकारेत्यर्थः ॥ १ ॥ - 252 षष्ठः सर्गः समुल्लसदित्यादि प्रयत्नीयितः प्रयत्नशीलो मर्त्यराट् तस्य पत्नी सा पूर्णमुदरं यस्या सा पूर्णोदरिणी वर्षेव रराज शुशुभे । कथम्भूता - समुल्लसत्पीनपयोधरा, समुल्लसन्तौ पीनौ पयोधरौ कुचौ यस्याः सा, पक्षे समुदितस्थूलमेघा, पुनः कथम्भूता - मन्दन्त्वं शिथिलत्वमञ्चन्तौ पदावेव पङ्कजे यस्याः सा, पक्षे मन्दत्वमञ्चन्ति पदानि येषां तथा भूतानि पङ्कजानि यस्यां सा, एवम्भूता वर्षेव रराज ॥ २ ॥ गर्भार्कस्येवेत्यादि एषा राज्ञी इहावसरे गुणानां सम्पदा सौन्दर्यशीलादिगुणसम्पत्त्योपगुप्ता समावृता सती स्वल्पैरहोभिः कतिपयदिवसैर्गर्भेऽर्भको गर्भार्भकस्तस्य यशः प्रसारैः कीर्तिकलापैरिवाऽऽकल्पितं निर्मितं घनसारसारै: कर्पूरतत्वैराकल्पितं देहं शरीरं समुवाह, गर्भप्रभावेण तस्याः शरीरे शौक्ल्यमजनीत्यर्थः ३ ॥ नीलाम्बुजेत्यादि - तस्या महिष्या नेत्रयुगं नेत्रयोर्द्वयं कर्तृ, पुरा मया नीलाम्बुजानि नीलकमलानि जितानि, अद्य पुनः सितोत्पलानि पुण्डरीकाणि जयामि, इतीव किल, कापर्दको योऽसावुदारोऽसङ्कीर्णो गुणस्य प्रकारो भेदः शुक्लवर्णस्तं बभार दधार ॥ ४ ॥ - सतेत्यादि - सतां सज्जनानामर्हता पूज्येन सार्धं यत्किल विधेर्विधानं निवसनं सहवासमभ्येत्य नाभिजप्तस्य तुण्डीनाम्मोऽवयवस्य या प्रकृतिगभीरता तस्यास्तु मानमभूत् गाम्भीर्यं त्यक्तोच्छ्रयत्वमन्वभूदित्यर्थः । तुत्तयुक्तमेव यत्तुकिल नाभिजाता अकुलीना प्रकृतिर्यस्य तस्य नीचजातेः कुतोऽपि महता संयोगेऽभिमानो भवत्येव । तथापि महतार्हता समागमेऽपि पुना राज्ञश्चन्द्रमसः कुलमन्वयस्तदुचितेन राजवंशयोग्येन वा मृगीदृशस्तस्या महिष्या मुखेन तत्रापि नतिरेव प्राप्तेत्यहो महदाश्चर्यम् । राजकुलोचितः क्षत्रियो महत्त्वेऽपि नमत्येवेत्यर्थः ॥ ५ ॥ गाम्भीर्यमित्यादि - अथेत्युक्तिविशेषे । अहो इत्याश्चर्ये । मञ्जू मनोहरे दृशौ चक्षुषी यस्यास्तस्या देव्या नाभि:, अन्तर्गभे तिष्ठतीत्यन्तःस्थः स चासौ शिशुस्तस्मिन् । त्रयाणां लोकानां समाहारस्त्रिीलोकी तस्या अप्यचिन्त्यप्रभावं स्मर्तुमपार्यमाणमहत्त्वं सहजमनायाससम्भवं गाम्भीर्य विलोक्य येिव लज्जयेव किल स्वगभीरभावं आत्मीयगम्भीरतां जहौ मुमोच ॥ ६ ॥ यथेत्यादि तस्या इदं तदीयं यदुदरं तस्य वृद्धिरुच्छिायस्तस्य वीक्षाऽवलोकनवृत्तियर्था यथाऽभूत् तथा तथा वक्षोजयोः कुचयोः श्यामञ्च तन्मुखं तस्य दीक्षोपलब्धिरभूत् तदिदमुचितमेव, यतो मध्यस्थाऽनुत्सेकरूपा केन्द्र धरणस्वरूपा वा वृत्तिर्यस्य तस्यापि किं पुनरितरस्येत्यपि शब्दार्थ: । उन्नतत्वं महत्त्वं सोढुमङ्गीकर्तुं कठिनेषु कठोरेषु सत्त्वं सामर्थ्य कुतोऽस्तु ? कुचौ च तस्याः कठिनौ तस्मात्तथात्वं स्यादेव । अर्थान्तरन्यासः ॥७॥ Jain Education International तस्या इत्यादि - तस्या महाराज्ञ्या उदरप्रदेशो योऽत्यन्तं कृश इति कृशीयान् पुनरपि स बलित्रयोच्छेदी त्रिबलीनां विध्वंसकोजात: । दुर्बल एकस्यापि बलवतो विजेता न भवेत् किं पुनर्बलित्रयस्येत्येतावत्तया खलु तस्य भूपस्य सिद्धार्थस्य मुदे बभूव प्रसन्नतां चकार । किन्त्वेतादृग् उदरे प्रभावः स सर्वोऽपि किलान्तर्भुवः प्रच्छन्नतया तिष्ठतः विवेकस्य विचारस्य नौरिव भवतः श्रीतीर्थकृत एव ॥ ८ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388