Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 331
________________ ररररररररररररररररर238रररररररररर या चोवौर्विलोमतां वैपरीत्यमाप्यापि सुवृत्तस्थितिं सदाचारभावमवापेति विरोधः, तत्र पुनरपि सा उर्वोर्जंघयोर्विलोमतां लोमाभावं दधत्यपि वर्तुलभाव लेभ इति परिहारः । या आत्मनः कुचयोः काठिन्यंकठोरत्व दधती समुन्नतिं सहर्षनम्रत्वं सम्भावयन्ती बभौ शुशुभ इति विरोधः । कुचकाठिन्येऽपि समुत्रतिं समुच्छायत्वं स्वीकुर्वाणेति परिहारः । या कचानां केशानां सग्रहे श्लक्ष्णत्वं नम्रत्वं दधत्यपि समुदितं साकं वक्रत्वं सम्भावयन्ती बभाविति विरोधः, तत्र कचसं मार्दवं कुटिलत्वश्च सार्धं विभ्राणा बभाविति परिहारः । विरोधाभासोऽलङ्कार ॥३२॥ ___ अपीत्यादि - या राज्ञी जिनपस्याहतो गिरा वाणीव समस्तानां प्राणिनामेकाऽद्वितीया बन्धुः पालनकरी आसीदभवत् । शशधरस्य चन्द्रमस:सुषमा ज्योत्स्ना यथा तथेवाऽऽहादस्य प्रसन्नताया:सनदोह:किलाविच्छिन्नप्रवाहस्तस्य सिन्धुनंदी बभूव नदीव यथा नदी तथैव सानुकूला कूलानुसारिणी नदी, राज्ञी चानुकूलचेष्ठावती । सरसा शृङ्गारससहिता सजला च सकला चेष्टा यस्याः सा, षट्पदीव भ्रमरीव नरपतेः पदावेव चरणावेव पद्ये । ते प्रेक्षत इत्येवंशीला नृपचरणकमलसेविकाऽभूदिति ॥३३॥ रतिरिवेत्यादि - तस्य विभूतिमतः सम्पत्तिशालिनः भस्मयुक्तस्य चेशस्य राज्ञो महेश्वरस्येव सा राज्ञी भूमावस्यां पृथिव्यां गुणतोऽपराजिता पार्वतीव कयापि परया स्त्रिया न जिंता सर्वोत्कृष्टा सती तस्य नृपस्य जनुषः जन्मनः आशिकेव शुभाशंसेव सन्धात्री पुष्पधनुषः स्मरस्य रतिरिव प्रियाऽभूत्प्रेमपात्री सञ्जाता ॥३४॥ असुमाहेत्यादि-सा राज्ञी सुरीतिः सुसंज्ञा, स्वसखि पति, इति जैनेन्द्रव्याकरणोक्ता सैव वस्तु प्रयोजनभूतत्वात्तस्य स्थितिः प्रतिपालयित्री सा पुनः समवायाय सम्यग्ज्ञानाय पतिमित्येनं शब्दं तावदसुं सुसंज्ञातो बहिर्भूतमाहोक्तवती, तथैव शोभना रीतिः प्रथा सैव वस्तु तस्य स्थितिर्निर्दोषकार्यकर्तीत्यर्थः । सा पतिं भर्ताटरमसुमाह प्राणरूपं निजगाद । समर्थं कं जलं धरतीति समर्थकन्धरः पुनरप्यजड़ो ड-लयोरमेदाज्जलरहित इति समतामपि ममतां शान्ति मपि मोहपरिणाममुदाहरदिति विरोधः, तत: समर्थो विजयकरौ बाहुमूलभागौ यस्य स भूपोऽजडो मूर्खत्वरहितः स राजा मम कवेर्मतां वर्णितप्रकारां तां राज्ञीमुदाहरत्, मया वर्णितस्वभावां तां राज्ञी स्वीचकारेत्यर्थः ॥३५। नरप इत्यादि . नरपो राजा वषभावं बलीवर्दतामाप्तवान । एतकस्य पनरियं महिषि रक्ताक्षिकाऽभत. अनयोद्वयोः क्रिया चेष्टा सा अविकारिणी अवेमेषस्य उत्पादिका, सा च द्युसदां देवानां प्रिया स्त्री समभूत् इति सर्वं विरुद्धम् । अतो नृपो वृषभावं धर्मस्वरूपमाप्तवान् जानाति स्म । एतकस्य पुनरियं महिषी पट्टराज्ञी वा धर्ममाप्तवतीत्यनयोर्विकाररहिता चेष्टा सुराणामपि मध्ये प्रिया प्रीतिसम्पादिका समभूदिति । अहो इत्याश्चर्यनिवेदने ॥३६॥ स्फुटमित्यादि - तयोर्नुपमहिष्योः सर्वोऽपि समयः स प्रसिद्धो निशा-वासरयोर्मध्य इतरेतरमानुकूल्यतः परस्परानुकूलाचरणतस्तथा स्पष्टं स्फुटमेव किल ऋतूनामिदमार्तवं यत्सम्विधानं यथर्तु सुखसाधनं तत: स्वतोऽनायासेनैव स्वमूल्यतः सदुपयोगेन समगच्छन्निर्जगाम ॥३७॥ इति तृतीयः सर्गः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388