________________
ररररररररररररररररर238रररररररररर या चोवौर्विलोमतां वैपरीत्यमाप्यापि सुवृत्तस्थितिं सदाचारभावमवापेति विरोधः, तत्र पुनरपि सा उर्वोर्जंघयोर्विलोमतां लोमाभावं दधत्यपि वर्तुलभाव लेभ इति परिहारः । या आत्मनः कुचयोः काठिन्यंकठोरत्व दधती समुन्नतिं सहर्षनम्रत्वं सम्भावयन्ती बभौ शुशुभ इति विरोधः । कुचकाठिन्येऽपि समुत्रतिं समुच्छायत्वं स्वीकुर्वाणेति परिहारः । या कचानां केशानां सग्रहे श्लक्ष्णत्वं नम्रत्वं दधत्यपि समुदितं साकं वक्रत्वं सम्भावयन्ती बभाविति विरोधः, तत्र कचसं मार्दवं कुटिलत्वश्च सार्धं विभ्राणा बभाविति परिहारः । विरोधाभासोऽलङ्कार ॥३२॥ ___ अपीत्यादि - या राज्ञी जिनपस्याहतो गिरा वाणीव समस्तानां प्राणिनामेकाऽद्वितीया बन्धुः पालनकरी आसीदभवत् । शशधरस्य चन्द्रमस:सुषमा ज्योत्स्ना यथा तथेवाऽऽहादस्य प्रसन्नताया:सनदोह:किलाविच्छिन्नप्रवाहस्तस्य सिन्धुनंदी बभूव नदीव यथा नदी तथैव सानुकूला कूलानुसारिणी नदी, राज्ञी चानुकूलचेष्ठावती । सरसा शृङ्गारससहिता सजला च सकला चेष्टा यस्याः सा, षट्पदीव भ्रमरीव नरपतेः पदावेव चरणावेव पद्ये । ते प्रेक्षत इत्येवंशीला नृपचरणकमलसेविकाऽभूदिति ॥३३॥
रतिरिवेत्यादि - तस्य विभूतिमतः सम्पत्तिशालिनः भस्मयुक्तस्य चेशस्य राज्ञो महेश्वरस्येव सा राज्ञी भूमावस्यां पृथिव्यां गुणतोऽपराजिता पार्वतीव कयापि परया स्त्रिया न जिंता सर्वोत्कृष्टा सती तस्य नृपस्य जनुषः जन्मनः आशिकेव शुभाशंसेव सन्धात्री पुष्पधनुषः स्मरस्य रतिरिव प्रियाऽभूत्प्रेमपात्री सञ्जाता ॥३४॥
असुमाहेत्यादि-सा राज्ञी सुरीतिः सुसंज्ञा, स्वसखि पति, इति जैनेन्द्रव्याकरणोक्ता सैव वस्तु प्रयोजनभूतत्वात्तस्य स्थितिः प्रतिपालयित्री सा पुनः समवायाय सम्यग्ज्ञानाय पतिमित्येनं शब्दं तावदसुं सुसंज्ञातो बहिर्भूतमाहोक्तवती, तथैव शोभना रीतिः प्रथा सैव वस्तु तस्य स्थितिर्निर्दोषकार्यकर्तीत्यर्थः । सा पतिं भर्ताटरमसुमाह प्राणरूपं निजगाद । समर्थं कं जलं धरतीति समर्थकन्धरः पुनरप्यजड़ो ड-लयोरमेदाज्जलरहित इति समतामपि ममतां शान्ति मपि मोहपरिणाममुदाहरदिति विरोधः, तत: समर्थो विजयकरौ बाहुमूलभागौ यस्य स भूपोऽजडो मूर्खत्वरहितः स राजा मम कवेर्मतां वर्णितप्रकारां तां राज्ञीमुदाहरत्, मया वर्णितस्वभावां तां राज्ञी स्वीचकारेत्यर्थः ॥३५।
नरप इत्यादि . नरपो राजा वषभावं बलीवर्दतामाप्तवान । एतकस्य पनरियं महिषि रक्ताक्षिकाऽभत. अनयोद्वयोः क्रिया चेष्टा सा अविकारिणी अवेमेषस्य उत्पादिका, सा च द्युसदां देवानां प्रिया स्त्री समभूत् इति सर्वं विरुद्धम् । अतो नृपो वृषभावं धर्मस्वरूपमाप्तवान् जानाति स्म । एतकस्य पुनरियं महिषी पट्टराज्ञी वा धर्ममाप्तवतीत्यनयोर्विकाररहिता चेष्टा सुराणामपि मध्ये प्रिया प्रीतिसम्पादिका समभूदिति । अहो इत्याश्चर्यनिवेदने ॥३६॥
स्फुटमित्यादि - तयोर्नुपमहिष्योः सर्वोऽपि समयः स प्रसिद्धो निशा-वासरयोर्मध्य इतरेतरमानुकूल्यतः परस्परानुकूलाचरणतस्तथा स्पष्टं स्फुटमेव किल ऋतूनामिदमार्तवं यत्सम्विधानं यथर्तु सुखसाधनं तत: स्वतोऽनायासेनैव स्वमूल्यतः सदुपयोगेन समगच्छन्निर्जगाम ॥३७॥
इति तृतीयः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org