________________
WW237 TOUT
तमेव नीरसं रसरहितजीवनमत एवऽऽगतं विनष्टप्रायञ्च समुपैमि जानामि । पराभूतश्च जनो जले बुडित्वा विनश्यतीति रीतिः ॥२६॥
या पक्षिणीत्यादि- याऽसौ भूपतेः सिद्धार्थस्य मानसं नाम चित्तं तदेव मानसनामसरस्तस्य पक्षिणी तदादरिणी पतत्रिणी च या किल जगदिदं चराचरं तदेवैकं दृश्यमवलोकनस्थानं तस्मिन् राजहंसी राज्ञः प्रिया क्षीरनीरविवेचिनी पक्षिस्त्री चेत्येवमिष्टानुमानिता, या खलु विनयेन नम्रभावेन, अथ च वीनां पक्षिणां नयेनाऽऽचारेण युक्ता, यतः खलु स्वचेष्टितेनैव मुक्ता परित्यक्ता, अफला फलरहिता स्थितिश्चेष्टा यया सा मुक्ताफलस्थितिस्तथा मुक्ताफलैमौक्तिकैरेव स्थितिः जीविका जीवनवृत्तिर्यस्या सापि ॥२७॥
प्रबालतेत्यादि - अस्या महिष्या मूर्ध्नि मस्तके प्रकष्टा बालाः केशा यत्र स प्रबालस्तस्य भावः प्रबालता सघनकेशत्वमिति अघरे ओष्ठदेशेऽपि प्रबालो विद्रुमस्तस्य भावः प्रबालताऽभूद्, अरुणवर्णत्वात्, तथैव करे हस्तेच प्रबालता सद्योजातपल्लवत्वंकोमलतयेति।यस्या मुखेऽब्जता चन्द्रमस्त्वमाह्लादकारित्वात्, चरणे पदप्रदेशेऽप्यब्जता कमलरूपत्वमाकारेण कोमलत्वेन च, तथा गले कण्ठेप्यब्जता शङ्खरूपत्वमभूदिति यस्या जान्वोGघयोयुगे द्वये सुवृत्तता समुचितवर्तुलाकारत्वम्, तथा चरित्रेऽपि सुवृत्तता नियमितेङ्गितत्वात् । कुचयोः स्तनयो: रसालताऽऽम्रफलतुल्यताऽभूदेवं कटित्रेऽधोवस्त्रेऽपि रसालता- रसां काञ्ची लाति स्वीकरोति रसालस्तस्य भावो रसालाऽभूत् ॥२८॥
पूर्वमित्यादि - एषोऽर्थोल्लोकमान्यो विधिविधाता पूर्व प्रथमतस्तावदभ्यासार्थं विधुं नाम चन्द्रमसं विनिर्माय रचयित्वा पश्चाद् व्युत्पत्त्यनन्तरं विशेषय नात्सावधानो भवन् तस्या मुकं कुर्वन् सन् एव मेतादृशं सर्वाङ्गसुन्दरं सम्पादयन् स तस्यैतद्वृतान्तस्योल्लेखकरीं तां चिह्राभिधां लेखां तत्र चन्द्रमसि चकार कृतवानित्युदारो महामनाः संज्ञायते । लोकेऽपि शिल्पिप्रभृति उत्तरां कृतिंकुर्वन् पूर्वां कृति लेखाभिश्चिह्नयति ॥२९॥
अधीतीत्यादि - अधीतिरध्ययनं, बौधो ज्ञानम् आचरणं तदनुकूला प्रवृत्तिः प्रचारोऽन्यप्राणिभ्यः सम्प्रदानमेतैश्चतुर्भिरुदारैः सर्वसम्मतैः प्रकारैरस्या राज्या विद्या चतुर्दशत्वं चतस्रो दशा अवस्था यस्याः तस्या भावश्चतुर्दशत्व तद्गमिता नीता, अतः कारणात्सकला वा पुन : कला, कला तु षोडशो भाग इति स्वभावादेव चतुःषष्ठिर्जाताः। अथ चतस्या विद्या निरन्तरमधीत्यादिभिःप्रकारैश्चतुर्दशप्रकारत्वं प्राषिताः,कलाश्च स्फूर्त्यादिरूपाश्चतुः षष्ठिसंख्याप्रमिताः स्री समाजयोग्यास्ताः परिपूर्णाः सञ्जताः ! पूर्णविदुषी सा सम्बभूवेति यावत् ॥३०॥
या सामेत्यादि - या राज्ञी सामरूपस्य शान्तभावस्य स्थितिमात्मना मनसाऽऽह, सततमेव शान्तचित्ताऽऽसीत्, या स्वीयाधरे ओष्ठदेशे विद्रुमतां प्रबालसंकाशतामुवाह अरुणाधराऽभूदिति । यस्यास्तनौ शरीरे तु पुनरुपमामनुवर्तमानत्वमनूपमत्वं, तस्योपमानत्वस्य सत्त्वं न पुनरुपमेयत्वस्य । तच्छरीरादधिकं सुन्दर किञ्चिदपि नास्ति यस्योपमा दीयताम् इति । धारणा स्मरणशक्तिरपि सा प्रसिद्धा तस्यां या खलु महत्त्वमुत्तरोत्तरवर्धमानत्वमन्वभवत् स्वीचकारेति । यस्या आत्मनि मरुनाम देशस्योपस्थितियंत्र विद्रुमता द्रुमविहीनता भवति, अनूपो नाम जलबहुलो देशस्तद्वत्त्वं शरीरे साधारणाय देशायानधिकजलगुल्मादिरूपाय तु यत्र महत्त्वमिति समासोक्तिः, त्रिप्रकारस्य देशस्य स्वामिनी सेत्यर्थः ॥३१॥
अक्ष्णोरित्यादि - या युवतिर्नवयौवनवती, अक्ष्णोर्दीर्घसन्दर्शितां विचारशीलतां दधती स्वीकुर्वती साञ्जनतां सदोषभावमवापेति विरोध:, किन्तु साऽक्ष्णोर्नेत्रयोदरदर्शित्वं दधत्यपि साञ्जनत्वं सकज्जलत्वमवापेति परिहारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org