SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 236 C इत इयादि हे अम्ब, मातः अहमितः प्रभृति, अद्यारभ्यामुष्य तवाननस्य मुखस्य सुषमा शोभां न स्पर्धयिष्येऽनुकर्तुं न प्रयतिष्ये इत्येवं स्पष्टीकरणार्थमिव सुधांशुश्चन्द्रमाः स्वस्य कुलेन नक्षत्रमण्डलेन युक्तः सन् यस्या लोकोत्तर - सौन्दर्ययुक्तायाः पादाग्रं चरणप्रान्तभागमितः प्राप्तः स्यादिति सम्भावनायामुपात्तः । अथशब्दः क्रमेणावयववर्ण नार्थमिति ॥२०॥ - दण्डाकृतिमित्यादि या राज्ञी स्वनितम्बदेशे कटिपृष्ठभागे पृथुरूपस्य महतश्चक्रस्य कलशकरणस्य मानादनुमानाज्ज्ञानादथारमनायासेनैव कुचयोस्तनयोर्द्वयोः कुम्भोपमत्वं कलशतुल्यत्वं दधाना स्वीकुर्वाणा सती तथैव लोमलतासु रोमावलीप्रदेशेषु दण्डस्याकृतिं दधाना पुनः स्वयमेवात्मनैव कुलालस्य कुम्भकारस्य सत्त्वं स्वरूपं किञ्च कुलेऽलसत्वं प्रमादित्वं स्वयमुज्जहार स्वीकृतवती मत्सदृशोऽनुत्साही कोऽपिनास्तीति किलानुबभूव । अथवा कुरिति पृथ्वी आधारे आधेयारोपणेन च प्रजाततिस्तस्या लालसा प्रेम यत्र तत्त्वम् ॥ २१ ॥ मेरोरित्यादि - याऽसौ राज्ञी मेरोः नाम्नः पर्वतादौद्धत्यमुन्नतत्वमाकृष्य निजे नितम्बे तदिताऽऽरोपितवती । अथवा पुनरब्जात् कमलादाकृष्याऽऽस्यबिम्बे मुखमण्डले, उत च पुनरब्धेः समुद्रादुद्धृत्य गाम्भीर्यमगाधभावं नाभिकायामथो तथैव धराया भूमेर्विशालत्वं विस्तारं श्रोणौ कटिपुरोभागे समारोपितवतीति किल । अतिशयोक्त लङ्कारः ॥ २२॥ चाञ्चल्यमित्यादि - या खलु चाञ्चल्यं चञ्चलभावमक्ष्णोश्चक्षुषोरनुमन्यमाना स्वीकुर्वाणा, दोषाणामाकरत्वं दोषमूलत्वमथ च दोषां रात्रिं करोतीति दोषाकरश्चन्द्रमास्तत्त्व मुखे दधाना समारोपितवती । प्रकर्षेण बालभावं मुग्धत्वं प्रबालभावं तथैवं मृदुपल्लवत्वं करयोर्हस्तयोर्मध्ये जगाद् कथितवती । यस्या महिष्या उदरेऽपवादो निन्दापरिणामोऽथवा नास्तीति वादो लोकोक्तिर्बभूवः निन्दायां स्तवं एवालङ्कारः ||२३|| महीपतेरित्यादि महीपतेः सिद्धार्थनराधिपस्य धाम्नि गृहे सा महिषी निजस्येङ्गितेन शरीरचेष्टया यतः कारणात् सुरीभ्यो देवीभ्योऽपीतेः सम्पतिकरी बाधा - सम्पादिका अभूत्, देवीभ्योऽप्यधिकसुन्दरी बभूवेत्यर्थः ! तथैव हितेन राज्ञोऽप्यन्यस्य लोकस्यापि हितेन शुभचिन्तनेन शोभनाया रीतेः सम्पत्तिकरी समभूत् । पुनर्हे मित्र, असकौ राज्ञी स्वकटिप्रदेशेन पवित्रा पविं वज्रं त्रायते स्वीकरोति सा शक्रायुधवदल्पमध्यप्रदेशवती । हृदा हृदयेनापि पवित्रा पुनीता अतीव निर्मलमानसा धरायां भूमौ न तु स्वर्गे अपिशब्दोऽत्रेवार्थकः किञ्च निजेङ्गितेन राज्ञी सानुरिवोन्नतिशीलाऽभूदित्यप्युक्तिलेशः ॥२४॥ - मृगीदृश इत्यादि - मृगी हरिणी तस्या दृशाविव दृशौ नेत्रे यस्यास्तया मृगीदृशो महिष्या या स्वयं सहजा चापलता चपल एव चापलस्तस्य भावश्चापलता हावभावादिचेष्टा या खुल रम्या रमणीया अतः सैव स्मरेण कामदेवेन चापलताऽऽपि धनुर्यष्टित्वेन अङ्गीकृताऽभूत् । अथ च मनोज: कामदेव एव हारो हदयालङ्कारो यस्याः साऽसौ राज्ञी निजेक्षणेन स्वकीयेनावलोकनेन कटाक्षरूपेण क्षणेन तत्कालमेवाङ्गभृतः शरीरधारिणो मनो हृदयं जहारापहृतवतीति । यमकोऽलङ्कार ॥ २५ ॥ अस्या - मृणालकं कमलनालमहमस्या महिष्या भुजस्य बाहुदण्डस्य स्पर्द्धने तुलनाकरणे गर्द्धनं तृष्णापरिणामो यस्य तत्तवात्कृतोऽपराधो दोषो येन तमेनमिदानीं तत्त्वाद्वस्तुतः | अन्तरभिव्याप्याभ्यन्तो न पुनर्बहिः । उच्छिन्नो गुणानां धैर्यादीनां तन्तूनां च प्रपञ्चो यत्र तं स्फुटितहृदयमित्यर्थः नीरे जले समागच्छति स्मेति नीरसमागतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002761
Book TitleVirodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherGyansagar Vagarth Vimarsh Kendra Byavar
Publication Year1996
Total Pages388
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy