________________
Orrrrrrrrr|235crrrrrrrrrrrrrrrrr स्वाने भस्मयुक्तोऽपि भवन् त्रिलोचनत्वाद् दृष्टिवैषम्यमेति सष्टेष्च संहारकरोऽपि भवतीति । अतिदेशालङ्कारः ॥१३॥
एकेत्यादि - अस्य राज्ञ एका प्रसिद्धा,चैकसंख्याका च सती विद्या श्रवसोरस्मादृशां कर्णयोईयोस्तत्त्वं वस्तुस्वरूपं सम्प्राप्य तद्विद्यां श्रुत्वाऽस्माकमपि कर्णों वस्तुतत्त्वं लभेत इति ।सम्प्राप्याथ च तत्त्वं नाम सप्तसंख्याकत्वमवाप्य सप्तद्वयं चतुर्दशत्वं लेभे समवापेति युक्तं, किन्तु तस्यैकापि शक्तिनीतेश्चतुष्कस्य सामदामदण्डभेदभिन्नस्य सारमुपागता सम्प्राप्ता सती नवतां नित्यनूततां बभार । अथ च नव संख्याकत्वमवापेत्यही आश्चर्यमेव । यत एकस्य चतुर्भिमिलित्वा पञ्चत्वमेव स्यादिति । किञ्चैकापि विद्या कर्णद्वयं प्राप्य त्रित्वमेवोरीक्रियतां, न तु चतुर्दशत्वं चतुःप्रकारत्वमित्यहो विरोधाभासः ॥१४॥
__छायेत्यादि - हे सुमन्त्रिन् मित्रवरः, श्रृणु तावत् इति योज्जम् । तस्य नृपस्य प्रियं करोतीति प्रियकारिणी इत्येवंशीला स्त्री बभूव, या नानापि प्रियकारिणी आसीत् । या च सदा राज्ञोऽनुगन्त्री छन्दोऽनुगामिनी सूर्यस्य छायेव, यद्वा विधेर्विधातुमायेव प्रपञ्चरचनेव । यस्या राज्याः प्रणयस्य प्रेम्णः प्रणीतिस्तावद्रीतिः पुनीता निर्दोषा समभूदिति ॥१५॥
दयेत्यादि-असौ प्रियकारिणी नाम्नी राज्ञी तस्य राज्ञः पदयोश्चरणयोरधीना वशवर्तिनी समथी चार्थक्रियाकारिणी सेवा वैय्यावृत्यक्रिया यस्यस्याःसा महाननुभाव:प्रभावो यस्याःसा,धर्मस्य समीचीना नुष्ठानस्य दया जीवरक्षावृत्तिरिव, तथा तपस इच्छानिरोधलक्षणस्य क्षान्ति: सहिण्णुतेव, पुण्यस्य शुभकर्मणः कल्याणानामुत्सवानां परम्परा पद्धतिरिव सदैवाभूज्जाता ॥१६॥
हरेरित्यादि - हरेः कृष्णस्य प्रिया लक्ष्मी: सा चपलस्वभावाऽनवस्थानशीला क्षणस्थितिमती सा, वाऽथवा मुडस्य महादेवस्य प्रिया पार्वती सा सततमेवालिङ्गनशीलाऽतो निर्लज्जतयाऽघं पापं कष्टं वा ददातीत्यघदा स्त्रिया लज्जैव भूषणमित्युक्तेः । रतिः कामप्रिया सा पुनरदृश्या द्रष्टुमयोग्या मूर्तिरहितत्वात् विरूपकत्वाद्वेति अतः हे शस्य पाठकमहाशय, पश्यात्र लोके शीलभुवः सहजतया निर्दोषस्वभावाया । स्तस्याः प्रियकारिण्या: समा समानकक्षा कथमस्तु तासु काचिदपीति ॥१७॥
वाणीत्यादि - या राज्ञी परमस्य सर्वोत्कृष्टस्यार्थस्य मुक्तिमार्गलक्षणस्य दात्री वाणीव जिनवागिव । यद्वा परमस्याविसम्वादरूपस्यार्थस्य पदार्थज्ञानस्य दात्री वाणी भवति, तथा चानन्दस्याऽऽह्लादस्य विधायाः प्रकारस्य विधात्री विधि-कत्री कलेव चन्द्रमसः, वितकेणावच्च परमोहपात्री, यथा वितर्कणा परमस्य निर्दोषस्योहस्य व्याप्ति ज्ञानस्य पात्री, तथैव राज्ञी परस्योत्कृष्टस्य मोहस्य प्रेम्णः पात्री, सत्कौतुकपूर्णगात्री मालेव यथा सद्भिः प्रफुल्लैः कौतुकैः कुसुमैः पूर्णगात्रं मालायास्तथा सता समीचीनेन कौतुकेन विनोदेन पूर्वंगात्रं यस्या एतादृशी राज्ञी । मालोपमालङ्कारः ॥१८॥
लतेत्यादि- या राज्ञी लतेव सम्पल्लवभावभुक्ता लता यता समीचीनानां पल्लवानां कोमल-पत्राणां भावेन भुक्ता भवति, तथा राज्ञी सम्पदः श्रियो लवानां भावेन भुक्ता । अथवा तु समीचीनानां पदानां लवा:ककारदयस्तेषां भावेन भुक्ता मृदुभाषिणीत्यर्थ: दीपस्य दशावर्तिरिव विकासेन (प्रकाशेन, प्रसन्नभावेन च) युक्ता। नित्यं सततमेव सत्तेवसमवादसूक्ता सामान्यशक्तिर्यथा समवादेन सत्सदिति प्रकारेणान्वयवचनेन सूक्ता भवति तथैव राज्ञी समवादसूक्तवती, न हि कुत्रचिदपि वैषम्यं वैरभावमनुकत्रीत्यर्थः । यतो यस्यां मृदुता कोमलत्वं मधुरत्वञ्च द्राक्षायामिवोपयुक्ताऽऽसीदभूत् ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org