________________
सररररररररररररगश्वररररररररररररररररर
मृत्त्वमित्यादि - पूज्यपादो जैनेन्द्रव्याकरणे संज्ञासु मनुष्यादिषु शब्देषु मृत्त्वं मृदमिधेयत्वमधुमृदिति जगाद सूक्तवान् । किन्तु नृपोऽसकौ राजा धातुषु सुवर्णादिषु परस्य लोकस्योत्तरजन्मनो हेतोः कारणात् किं वा परेषां लोकानां हेतोरुद्वारकारणाद् ममत्वहीनो भवन् न तत्र रूप्यकादिषु ममत्वं कृतवान् । मृदो मृत्तिकाया भावं मृत्त्वं स कथितवान् यत्र पूज्यपादोऽपि मुनिर्धातुषु भूवादिषु मृत्त्वं न कथितवान् एवं तदेतदस्योज्ज्वला कीतिरेव केतुः पताका यस्य-तस्य राज्ञोऽस्ति धाम तेज एव यावत् ॥७॥
सा चेत्यादि - हे सखिराज, मित्रशिरोमणे, पश्य विचारय तावत् । यत्किल नृपनायकस्य सिद्धार्थस्य सा विद्या या लोकोत्तरत्वमसाधारणभावमितरजनेषु यथा न स्यात् तथात्वमाप समुपलेभे । यतः स मार्गणानां मङ्गतानां बाणानां चौघः समूहो यस्य सविधं समीपभावमाप, गुणस्तु यस्य यसोनामा दिगन्तगामी बभूव, दानित्वात्। इतरस्य जनसाधारणस्य धनुर्धरस्य बाणसमूहो दूरं याति, गुणः प्रत्यञ्चाभिधः समाकृष्टो भवतीति विचित्रवस्तु समाश्चर्यस्थानमेतत् यस्माद् ईदृशी चापविद्या क्वापि न दृष्टा, यादृशी सिद्धार्थस्याभूदिति ॥८॥
त्रिवर्गेत्यादि - प्रतिपतेव्युत्पत्तेः सारः सत्त्वभागो यत्र सोऽसौ राजा त्रयाणां वर्गाणां धर्मार्थकमाख्यानां भावात् परिणामात् स्वयमेवानायासेनैव चतुर्णा वर्णानां ब्राह्मणक्षत्रियवैश्यशूद्रनाम्नां विधिं विधानं चकार कृतवान् । ततोऽमुष्य भवे जन्मनि, अपवर्गस्य स्थितये मोक्षपुरुषार्थसम्पत्तयेऽनभिज्ञत्वमज्ञत्वं वेद, अद इदं ज्ञातवान् स तादृशो जनो नास्ति त्रिवर्गसम्पत्तेः अपवर्गसाधकत्वात् तथा च त्रिवर्गाणां क-च-ट-वर्गाणां भावात्सद्भावाद् ज्ञानादनन्तरं यः स्वयमेव चतुर्णा वर्णानां त-थ-द-धानां विधिं चकार । अत एव जनोऽमुष्यापवर्गास्थितये पवर्गस्योपपत्यभावार्थमद इदं नकारस्यानभिज्ञत्वं वेद, नकाराध्ययनात्पूर्व- पवर्गाध्ययनं कुतः स्यादित्यर्थः । श्लेषपूर्णा निन्दायां स्तुतिः ॥९॥
भुजङ्गत इत्यदि - अमुष्य राज्ञो भुजं कुटिलं गच्छतीति भुजङ्गस्ततोभुजङ्गतोऽसेः खङ्गादेव सात् मन्त्रिणः सचिवा अथ च गारुडिनोऽपि त्रातुं रक्षितुं क्षमाः समर्था न भवन्ति । यदि कदाचित् अवसरे स राज्ञोऽसि: कोपी कोपयुक्तो भवेच्चेत् इत्येवं विचायवारयः शत्रवः तस्यैव भूपस्याङ्घयोश्चरणयोर्ये नखा नखरा एव चन्द्रा दीप्तिमत्वात् तेषां कान्तिं र्योत्स्नामनुयान्ति स्वीकुर्वन्ति । श्लेषयुक्तो रूपकालङ्कारः ॥१०॥
हे तातेति - समुद्रं प्रति हे तात पूज्यवर, तव तनुजा लक्ष्मीर्या सा जानुर्जङ्घा तदुचितो लम्बो बाहुस्तत्प्रापको भुजो यस्य तस्य सिद्धार्थनामनपस्यानं शरीरं सभास्वपि किमुतान्यत्रेत्यपि शब्दार्थः । न विमुञ्चत्त्यजेदीदृशी लज्जारहिता जातेत्थं गदितुं वक्तुं तस्य राज्ञः कीर्तिः समुद्रस्यान्तं समीपमवाप । अहो-इत्याश्चर्ये ॥११॥
आकण्येत्यादि - चेद्यदि भूपालस्यास्य सिद्धार्थस्य यश-प्रशस्तिं विरुदावलिं चारणादिगीतामकर्ण्य श्रुत्वाऽऽश्तचर्यचकितः सन् शिरोधुनेत् धुनुचयात् कम्पं प्राप्नुयात्तदा भुवोऽपि स्थितिरेवं कथमेवं स्यान्नैव सम्भवितुं न शक्नुयादित्यनुमानजातात्परिज्ञानात् धाता पूर्वमेवाहिपतेः शेषस्य कणौं न चकार । सर्पजाते: श्रवणशक्तिसद्भावेऽपि कर्णयोराकाराभावमाश्रित्येत्थमुत्प्रेक्षितमस्ति ॥१२॥
विभूतिमत्वमित्यादि - विभूतिमत्वं सम्पत्तियुक्तत्वमत एव महेश्वरत्वं प्रभुत्वञ्च दधता सृष्टेः प्रजारूपाया: समुन्नतत्वं हर्षपूर्वकं नम्रभावं च व्रजता स्वीकुर्वताप्येनन जननायकेन राज्ञा कुतोऽपि व चिदपि प्रजावगें दृष्टवैषम्यं नेतं वैपरीत्यं न प्राप्तं कस्मैचिदपि विराधकत्वं नाङ्गीकृतमिति । लोकाभिमतो महेश्वरस्तु विभूतिमान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org