________________
mer
r
233 Carrrrrrrrrrrrrrrr
तृतीयः सर्गः निःशेषेत्यादि - निशेषाणामग्विलानां नम्राणां नम: कुर्वतामवनिपालानां राज्ञां या मौलिमालाः शिरोभूषणस्थाः पुष्पसन्ततयस्तासां रजोभिः पिञ्चरिता धूसरीकृताऽङ्ग्रयोश्चरणयोः पौलिः प्रान्तभागो यस्य सोऽस्य नगरस्य कुण्डिनपुरस्य शास्ता प्रतिपालको बभूव, यस्य तास्ताः प्रसिद्धाः कीती: यशांसि एवं च श्रियोः गुण-सम्पत्तीश्च वदामि कथयामि तावत् ॥१॥ ___ सौवर्ण्यमित्यादि - अस्य नृपस्य शोभनो वर्णो रूपं यस्य स सुवर्णस्तस्य भावः सौवर्ण्य- तदथवा काञ्चनत्वमेवं च धैर्य धीरभावं दृढ़त्वं अचलत्वं वोद्वीक्ष्य दृष्टवा मेरुः सुमेरुदंरंगतो नाहमीदृक् धैर्यवान् सुवर्णी चेति लज्जया किल वा । पुनर्वाधिः समुद्रोऽपि एतस्य मुक्तामयत्वात् मुक्तो निवृत्तिमितो नाशमवाप्त आमयो रोगो यस्मात्स मुक्तामयस्तत्त्वात् अथवा मौक्तिकमयत्वात् गभीरभावद् गढ़चित्तत्वादतलस्पर्शत्वाद्वा हेतोश्च सदा ग्लपितो द्रवत्वमित एव तिष्ठति । अहो-इत्याश्चयें ॥२॥
रेवरित्यादि - एकेनैव करेण हस्तेन लोकस्याशानामभिलाषाणां सहस्रं दशशतसंख्यात्वं समासात्सक्षेपात् अन्यथा त्वतोऽप्यधिकमिति भावः । अथवा समेकीभावे समस्यत इति समासस्तत्कालस्तस्माद् युगपदिति, आपूरयतस्तृप्तिमानयतोऽस्य नृपस्य समक्षमग्रतस्तावत्, च पुनः सहस्रैः करैः स्वकीयैः किरणैर्दशानामाशानां दिशां परिपूरकस्य सप्रकाशकस्य अस्य रवे:सूर्यस्य महिमा महत्त्वं किमिवास्ति ? न किमपि किन्त्वतिशयेनाल्पकत्वमेवास्ति। श्लेषगों वक्रोक्त्यलङ्कारः ॥३॥
भूमावित्यादि - वीतो विनाशमित: कलङ्कस्य दूषणस्य लेशो यस्मात्स दोषवर्जितः भव्यानां सभ्यजनानामेवाब्जानां कमलानां वृन्दस्य सम्प्रदायस्य पुनः मुदे प्रसत्यै जातोऽथ च लसन्तीभिः सततं वर्तमानाभिः कलाभिः स्फूर्तिप्रभृतिभिराढयः सम्पन्नः, एतादृशो राजा भूपश्चन्द्रश्च द्वितीयोऽपि किलाद्वितीयोऽपूर्वरूपो जात इतीव विचार्य चन्द्रोऽप्ययं भयाढयो भयभीतो नाहं निष्कलङ्को न च कमलप्रियो नाप्यक्षकलावान् एवं त्रस्तोऽथ च भया कान्त्याऽऽढयः संयुक्तो जातः खलु । एकं विशिष्टगुणं दृष्ट्वाऽपरोऽपिगुणप्रकर्षमात्मनि समादातुं यतत एवेति नासौ चन्द्रः सिद्धार्थसम इत्यर्थः । अतिदेशालङ्कारः । 'अतिदेशः सजातीयपदार्थेभ्यो विशिष्टता' इति सुक्तेः । भूमावहो धरण्यामपीत्याश्चर्यम् ।।४॥
योग इत्यादि-विधेब्रह्मणो वेदनायाज्ञानेन योग:सम्बन्ध: परावृत्य पीडयेति यावत् ।सचापराजितेशोऽपराजिताया: पार्वत्याः स्वामी महादेवः शूली त्रिशूलनामायुधधारकः शूलरोगवान्वा । माधवः श्रीकृष्णः पुनर्गदान्वितो रोगयुक्तः । गदो रोगो नाम, गदा चायुधविषेषस्तदन्वितः । इत्थमस्य निरामयस्य रोगरहितशरीरस्य नृपस्य समः समानः क्व? किलामीषु न कोऽपीत्यर्थ : ॥
यदित्यादि - यत् किल यस्मात्कारणाज्जनः साधारणो मनुष्यवर्गः कृष्णं वर्त्म मार्गों नीतिलक्षणोऽथ च गगनप्रदेशो यस्मात् स तस्य भाव स्तत्त्वमनीतिगामित्वं धूमवत्वमपि चर्ते विनाऽमुष्य राज्ञोऽत्र प्रताप एव वह्निः
ग्निः शत्रुसंहारकत्वात् तं सदाभ्यवाप, पुनश्च लोकस्यक स्यापि जनस्य वितर्कस्य प्रश्नामिधस्य चिन्तायाश्च सत्त्वं नो बभूव, ततोऽ मुष्यानुमानमेवानुमात्वं प्रत्यपि चाद्भुतत्वं अपूर्वत्वं पश्याम्यहमिति । यत्प्रतापतो न कोप्यनीतिकर्ताऽभूदित्यर्थः । मां लक्ष्मीमनुवर्तमानत्वमनुमात्वमिति चोक्तिलेशः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org