________________
रररररररररररररररररररररर
सन्धूपेत्यादि - समीचीनस्य धूपस्याग्नौ प्रक्षिप्तस्य यो धूमस्तस्मादुत्थिताः सम्पन्ना ये वारिदा मेघा यत्र तेषामातोद्यानां वादित्राणां पूजनस्तवनादौ समर्थितानां नादैः शब्दैः कृतं गर्जितं यत्र तेषां, वाद्यं वादिनमातोद्यं काहलादि निरुच्यत इति कोशः । एतादृशानां जिनालयानामुपरि वर्तमाना तावदिति शेषांशः शृङ्गाग्रे शिखरप्रान्तभागे प्रोतो यो हेमाण्डकः स्वर्णकलश इत्येतत्सम्विधानं कथनं यस्याः सा शम्पेव विद्युदिव सम्भाति विराजते ॥३३॥
गत्वेत्यादि - द्वारोपरि प्राङ्गणभागः प्रतोली कथ्यते, तस्याः शिखराग्रे लग्नेभ्य इन्दुकान्तेभ्यश्चन्द्रकान्तमणिभ्यो निर्यत्समुद्रच्छद्यज्जलं तदापिपासुः पातुमिच्छुरिन्दोम॑गस्तस्त्र गत्वाऽथ पुनस्तत्रैवोल्लिखितादुत्कीरितान्मृगेन्द्रात् सिंहाद् भीतो भयं प्राप्तः सन्नपि स आशु शीघ्रमेव जलमपीत्वेत्यर्थः, प्रत्यपयाति प्रतिनिवृत्तो भवति । सन्देहालङ्कार • ॥३४॥
वक्तीत्यादि - उच्चलति मुहुरुत्थितो भवति केतुरेव करो यस्याः सा जिनो भगवान् अङ्क उत्सङ्गे यस्याः सा ध्वजा की, कणन्त्यो निरन्तरध्वनिवत्यो याः किङ्किणिकास्तासामपदेशात् मिषात्सा ध्वजा तावदित्येवं वक्ति वदति-यद्भो भव्यजना धार्मिकलोका यदि भवतां सुकृतस्य पुण्याख्यस्य शुभकर्मणोऽर्जने सम्पादने इच्छा वर्तते तदाश्वेव शीघ्रतयेहायात, अत्र समागच्छत स्वयमेव स्वमनसा । सेत्यथवा स्यादिच्छाया विशेषणम् । रूपकयुक्तापहृत्यलङ्कारः ॥३५।।
जिनालया इयादि- तत्र नगरे रात्रो स्फटिकस्यायं स्फाटिकश्चासौ सौधदेशस्तस्मिन्नशेषे सम्पूर्णेऽपि नैकस्मिन्नेव प्रदेशे ताराणामवतारः प्रस्फुरणं तस्य छलतो मिषात् सुपर्वभिर्देवैः पुष्पगणस्योचितः सम्पादित उपहारः सन्तर्पणं यत्र यस्मिन्नगरे ते तथाविधा इव भान्ति शोभन्ते जिनालयाः ॥३६॥
नदीनेत्यादि - यत्र नगरे जना नदीनभावेनौदार्येण हेतुना लसन्ति शोभन्ते सर्वेऽप्युदारचरिताः सन्ति । वनिताः स्त्रियो वा पुना रोचित्वं सौन्दर्यं श्रयन्ति । एवं द्वयेषामुभयेषां गुणतो विशालः कालः स मुदस्तरङ्गत्वं मोदपरिणामवत्वमुपैति । तथा सर्वे जना नदीनस्य भावेन समुद्रभावेन शौभन्ते, स्त्रियश्च वार इव रोचितत्वं जलतुल्यतां नैर्मल्यं श्रयन्ति, कालश्च तरङ्गभावं विशालोऽपि याति शीघ्रं प्रयाति । श्लेषालङ्कारः ॥३७॥
नासावित्यादि - यत्र नगरेऽसौ नरो मनुष्यो नास्ति यो भोगी न भवति, भोगोऽपीन्द्रियसुखसमागमोऽपि नासौ यो वृषप्रयोगी न भवति, किन्तु धर्मानुकूलमेव सुखानुभवनमस्ति । वृषो धर्माचारोपि स तादृशो नास्ति य किलासख्यमर्थितः स्यात् सख्येन परस्परप्रेम्णा संयुक्तो न भवेत् । सख्यं मित्रत्वमपि तत्तादृङ् नात्र सम्भाव्यते यत्कदापि नश्यात् नष्टं भूयात् किन्त्वामरणस्थायि मित्रत्वं भवति । अर्थात् परस्पराविरोधेन त्रिवर्गसेवनं कुर्वन्ति तत्रत्या इति । समन्वयालङ्कारः ॥३८॥
निरौष्ठयेत्यादि - यत्रापवादवत्ता पकारोच्चारणवत्वं न भवतीत्यपवादवत्ता । सा निरौष्ठ्यकाव्येष्वेव, न पुनः कस्मिन्नपि जने अपवादवत्ता निन्दायुक्तत्वम् । अथ च हेतुवादे न्यायशास्त्र एव परमस्य निर्दोषस्योहस्य तर्कस्य सत्ता परन्तु, न क्वचिदपि जने परस्मिन्पदार्थे मोहसत्ता ममत्वपरिणामः । अपाङ्गनामश्रवणं तु कटाक्षे नेत्रवीक्षण एव स्त्रियाः किन्तु न कोऽपि किलापाङ्गो विकलाङ्गः, छिद्राधिकारित्वं विवरयुक्तत्वं गवाक्षे जालक एव, किन्तु न कोऽपि जनो दोषान्वेषी । परिसंख्यालङ्कार ॥३९॥
विरोधितेति - यत्र पञ्जरे पक्षिनिवास एव वेः पक्षिणो रोधिता अवरोधः, नान्यत्र विरोधो वैरभावो भाति। सरस्तटाकं गच्छतीति सरोगस्तस्य भावः सरोगता तां मरालतातिहँसपङ्क्तिरेवैति प्राप्नोति, न कोऽपि
Jain Education International
For Private & Personal Use Only
. www.jainelibrary.org