SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ T U O |239 MINUT चतुर्थः सर्गः अस्या इत्यादि- अस्माकमानन्दगिराणां प्रसन्नतासम्पादिकानां वाणीनामुपहार: पारितोषिकरूपो वीरो वर्द्धमानो भगवान् भवितुमर्हः । स कदाचिदेकदाऽस्याः श्रीसिद्धार्थस्य महिष्या उदरे आरात्संयोगवशात् शुक्तेरारात्कुवलस्य मौक्तिकस्य प्रकार इव मौक्तिकविशेष इव उदरे स्वयमनन्यप्रेरणयैवावभार घृतवान् गर्भकल्याणं नाम । अतोऽन्यं गर्भ न धरिष्यतीति यावत् ॥ १ ॥ ___वीरस्येति - मासेष्वाषाढमासः । पक्षयोद्वयोर्यः सारः शुचिर्विशुद्धनामा सः । तिथिश्च सम्बन्धवशेन यस्या गर्भो जातः सा षष्ठीति नाम्नी । ऋतुस्तु पुनः समारब्धा पुनीता वृष्टिर्यस्मिन् स वर्षारम्भसमय इत्यर्थः । एष वीरस्य गर्भेऽभिगमस्य गर्भावतारस्य प्रकारो विधिः कालनिर्देशः ॥ २ ॥ धरेत्यादि - गर्भमुपेयुषः समायातवतः प्रभोर्भगवतस्रिज्ञानधारिणः कारणात्तु पुनः प्रजेव प्रजावद् इयं धरा भूमिरप्युल्लासेनहर्षेण सहितस्य विचारस्य वस्तुबभूव जाता। यतस्तदानीं रोमाञ्चनरङ्करिताऽङ्कुरभावमितेवेत्यन्तर्हितोपमा। सन्तापं शोकपरिणाममुष्णभावञ्चोज्झित्य त्यक्त्वाऽऽर्द्रभावां कोमलहृदयत्वं सजलत्वञ्च गता प्राप्तेति ॥३॥ ___नानेत्यादि - प्रसङ्गवशात्कविस्तस्य वर्षाकालस्यैव वर्णनं करोति । एष वर्षाभिधानः किल कालो रसायनाधीश्वर वैद्य इव भाति । तथाहि-रसस्य जलस्यायनं प्रवर्तनं, पक्षे रसस्य पारदाख्यधातोरयनं उपयोगकरणं तस्याधीश्वरोऽधिकारी। नानाऽनेकप्रकाराणामौषधीनां कण्टालिकादीनां पक्षेऽमरसुन्दर्यादिप्रयोगरूपाणां स्फूर्ति घरतीति सः। प्रशस्या प्रशंसायोग्या वृत्तिः, पक्षे प्रकृष्टानां शस्यानां मुद्रधान्यादीनां वृत्तिः समुत्पत्तिर्यत्र सः इदं जगत्तप्तमुष्णतायुक्तं ज्वरयुक्तं चावेत्य तस्य कौ पृथिव्यां र-लयोरभेदात् शर जलं, शरं वनं कुशं नीरं तोयं जीवनमब्विषमिति धनञ्जयः । पक्षे कौशलं कुशलभावं प्रवर्तयन् कुर्वन्सन्नित्येवं रूपेणोदार उपकारकरः ॥ ४ ॥ वसन्तेत्यादि - वसन्त एवं कुसुमप्रायतुरेव सम्राट श्रीमत्वात्तस्य विरहो राहित्यं तस्मात् । अपगता ऋतुः कान्तिर्यस्यास्ताम् तथा चापकृष्टो वस्तूनां बलवीर्यापहारको ग्रीष्माख्यर्तुर्यस्यां तामेतां महीं पृथ्वीमेव स्त्रीमिति यावत् । उपकर्तुमिव स्वास्थ्यमानेतुमिव दिशा एवं वयस्याः सख्यस्ताभिर्घनानां मेघानामपदेशो मिषस्तस्मात् । नीलाब्जानामुत्पलानां दलानि पत्राणि धृतानि समारोपितानि, अशेषात् सर्वत एवं ॥ ५ ॥ वृद्धिरित्यादि - अयं वर्षावसारः कलिर्नुकलिकाल इवास्तु प्रतिभातु, यतोऽत्र जड़ानां ड-लयोरभेदात् जलानां पक्षे मूर्खाणां वृद्धिः । मलिनैः श्यामवर्णैर्घनौधैः पक्षे बहुभिः पापिभिरुन्नतिर्लब्धा सम्प्राप्ता । जनो मनुष्यवर्गस्तु पुनस्त्यक्तपथोऽत्र भ्रष्टपथो जातः, जलप्लवत्वा न्नियतं मागं त्यक्ताऽन्यमार्गगामी वर्षायां कलौ च सन्मार्गच्चयुतो भूत्वा पापपथरत इति यत्र च देशं देशं प्रति प्रतिदेशं सर्वत्रैव द्विरेफाणां भ्रमराणां पक्षे पिशुनानां संघः प्रतिभात्येवंप्रकारेण साम्यमस्ति ॥ ६ ॥ __ मित्रस्येत्यादि - निर्जलमेघेराच्छादितं दिनं दुनिमित्याख्यायते, तच्च दुर्दैवतां दुर्भाग्यस्य समानतामगात्, यत्र मित्रस्य सूर्यस्य पक्षे सहचरस्य वेक्षणं दर्शनं समागमनं च, दुःसाध्यमसुलभम्, तु पुनः यूनां तरुणानामप्युद्योगा व्यापारा यत्र विलयं नाशमेव व्रजन्तु सशंकभावात्कार्य कुर्तुं नोत्सहन्ते जना इति । जीवनं जलमायुश्च यदुपात्तं सल्लब्धं तद् व्यर्थं भवति ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002761
Book TitleVirodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherGyansagar Vagarth Vimarsh Kendra Byavar
Publication Year1996
Total Pages388
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy