________________
सररररररररररररा240ररररररररररररररररर
लोक इत्यादि - अस्मिन्नृतौ, अयं लोकः समस्तमपि जगत् तथा च जनसमूहो जडाशयत्वं जलस्याश्य: स्थानं तथैव जडो मन्दत्वमित आशयश्चित्तपरिणामो यस्येति सः । तत्त्वमाप्नोति घनानां मेघानां मेचकेनान्धक घनेन निविडेन मेचकेन पापपरिणामेन सतां नक्षत्राणां वर्त्म गगनं तथैव सत्समीचीनं वर्त्म पुण्यं तल्लुप्तं भवति यत्रारान्निरन्तरं प्लवङ्गा दर्दुरा यद्वा चञ्चलचित्ताः प्लवं चापल्यं गच्छन्तीत्येवं शीला जना एवं वक्तारो ध्वनिकराः पाठकाश्च भवन्तीति । अन्यपुष्टः कोकिलोऽथवान्येन पोषणमिच्छति स मौनी वाग्विरहितः सचिन्तश्च भवति, न कोऽपि परोपकारी सम्भवतीति यतः । अनेन कारणेन वर्षाकालः स्वयमेव सहजभावेन कलितुल्य इति ॥ ८ ॥
• रसैरित्यादि - यद्वा वर्षाकालो नृत्यालय इव भवति, यत्र मृदङ्गस्य वादित्रविशेषस्य निस्वानं शब्दं जयति तेन मुदिरस्य मेघस्य स्वनेन ध्वनिना सूत्कण्ठितः समीचीनामुत्काण्ठां सम्प्रातोऽयं कलापी मयूरो यो मृदु मञ्जु च लपतीति स मधुरमानन्दकरञ्चालपति स क्षणेन तत्कालमेव रसैर्जलैः शृङ्गरादिरसैश्च जगदिदं प्लावयितुं जलमयं कर्तुं नृत्यं तनोति ॥ ९ ॥
पयोधरेत्यादि - अथवाऽसौ प्रावृट् वर्षाकालो नारीव भाति । यस्याः पयोधराणां मेघानां पक्षे स्तनयोरुत्तानता समुन्नतिस्तया कृत्वा वाग्गर्जनं पक्षे वाणी सा जनानां मुदे प्रीतये भवति या च भृशं पुनः पुनर्दीपितः कामदेवो यया सा, नील श्यामलमम्बरं गगनं वस्त्रं वा यस्याः सा रसौघस्य जलप्रवाहस्य शृङ्गारानन्दसन्दोहस्य च दात्री वितीर्णकी सुमनोभिः कुसुमैरभिरामा मनोहरा, अथवा सुमनसे प्रसनचेतसेऽप्यभिरामा ॥ १० ॥
वसुन्धराया इत्यादि - अद्यास्मिन्समये वसुन्धराया भूमेस्तनयान् वृक्षान् विपद्य नाशयित्वा ग्रीष्मे वृक्षा विरोपा भवन्तीति तं खरकालं ग्रीष्मर्तुं आरादचिरान्निर्यान्तं पलायमानममी द्राक् शीघ्रमेवान्तरार्द्राः सजला मनसि दयालवश्चाम्बुमुचो मेघा परिणामे फलस्वरूपेण वार्जलमश्रस्थानं येषां यथास्यात्तथा शम्पा विद्युत एवं दीपास्तैः साधनभूतैर्विलोकयन्ति ॥ ११ ॥
वृद्धस्येत्यादि - आशु शीघ्रं निष्कारणमेव वृद्धस्य वृद्धिं गतस्य जराजीर्णस्य च वराकस्य सिन्धोः समुद्रस्य रसं जलं सुवर्णादिकञ्च हृत्वाऽपहत्य तु पुनस्तत: शापाद् दुरशिष: कारणादिवास्ये स्वीयमुखप्रदेशेऽलिरुचिं भ्रमरसङ्काशत्वं धृत्वा श्यामलिमानमधिकृत्य, अथ पुनरेतस्य आगसो दूषणस्य हतिः परिहारस्तस्या नीते: सत्तवात्सद्भावात् असौ तडित्वान् जलधरस्तमशेषं सम्पूर्णमपि श्रणति परित्यजति न मनागप्यात्मसात्करोति ॥ १२ ॥
श्लोकमित्यादि - हे विचारिन् पाठक, शृणु तावत् इत्यध्याहारः । विशारदा विदुषी शरदागमरहिता चेयं वर्षा लोकानामुपकृतौ विश्यस्यापकारः स्यादिति विचारमधिकृत्येत्यर्थः । तु पुनः श्लोकमनुष्टुप्छन्दो विधातुं कर्तुमथ च यशो लब्धं तस्यैव साधनभूतानि पत्राणि पल्लवरूपाणि कर्गलानि कलमं धान्यविशेष लेखनी च लातुं संगृहीतुं यावदभ्यारभते तावदयं भूयः पुन: पुनर्भवन् वार्दलो मेघो मषीपात्रं वा स आशुकारी आशं नानाविधमन्नं करोति स सफलताकारको वाऽस्ति । समासोक्तिः ॥ १३ ॥ ___ एकाकिनीनामित्यादि - असौ नीरदो मेघो रदरहितो वृद्धश्च सोऽधुना किलैकाकिनीनां स्वामिविहीनानां वधूनां मांसानि यानि किल स्वभावत एवं मृदूनि कोमलानि भवन्ति तानि आस्वाद्य भक्षयित्वा हे आत्मसाक्षिन् विवेकिन् शणु स एव करकानां जलोपलानां प्रकाशात् समुद्भावनात् तासामस्थीनि एव काठिन्याद्धे तोर्निष्ठीवति थूत्करोति । किमिति संप्रश्न विचारे ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org