SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 1241 नितिम्बिनीनामित्यादि - कुशेशयानि कमलानीदानीं नितम्बिनीनां युवतीनां मृदुभिः सुकोमलैः पादैरेव पद्यैस्तैः प्रतारितानि न यूयमस्माकं तुल्यतां कर्तुमर्हथेति तिरस्कृतानि ततो ह्रिया लज्जयेव किल स्वीयस्य शरीरस्य हत्यै विनाशार्थं विषप्रायस्य जलवेगस्यैव गरलरूपस्य रयात्प्रसङ्गाद्धे तोरियं क्रिया तेषां प्रतिभाति तावद्वर्षायां कमलानां विनाशो भवतीति समाश्रित्योक्तिरियम ॥ १५ ॥ समुच्छलदित्यादि इदानीं वर्षौं समुच्छलन्ति सम्मिश्रणतामनुभवन्ति शीतलाः शीकरा जलांशा अङ्कं मध्ये तस्मिन् तादृशि वायौ वहति सति, महीमहाङ्के सुविस्तृते भूतले किलैष प्रसिद्धोऽनङ्गः कामः सभयेव भयमवाप्यैव खलु उत्तापेन शोकवशेन तप्तमुष्णतां नीतं विधवानां पतिहीनानां नारीणामन्तरङ्गं भूयः पुनः पुनर्यथा स्यातथा प्रविशति ॥ १६ ॥ - वृथेत्यादि इदानों का दर्दुरा वृथैव कुकवीनां प्रयातं चेष्टितं अयन्तः स्वीकुर्वन्तः किलैकाकितया स्वममेवान्यप्रेरणं विनैव लपन्तः शब्दं कुर्वन्तः पङ्केन कर्दमेन पापेन वा प्लुताः संयुक्ताः सन्तः, यद्वा पङ्के प्लुतास्तन्मया भवन्त उदात्तं कं महदपि जलं कलयन्ति दूषयन्ति यद्वाऽऽनन्दमनुकुर्वन्ति, किन्तु महतामुदारचरितानामन्तश्चित्तं नित्यमेव तुदन्ति दुःखितं कुर्वन्ति । उत भङ्गयन्तरणने ॥ १७ ॥ चित्तेशय इत्यादि चित्ते शेते समुत्पद्यते स चित्तेशयः कामः सोऽयं सर्वमान्यः संस्तु पुनर्जयताद् विजयी भूयादिति किल हृष्टा: श्लाघापरायणत्वेन फुल्लतामिताः श्रीमन्तः कुटजा नाम वृक्षास्ते सुमेषु पुष्पेषु तिष्ठन्तीति समुस्था वारो जलस्य बिन्दवोंऽशास्तेषां दलानि समूहास्तेषामपदेशो मिषः सम्भवति यत्र तं तादृक्षं मुक्तामयं मौक्तिकलक्षणमुपहारलेशं पारितोषकांशं श्रयन्तु येऽधुना वर्षाकाले श्रयन्ति ॥ १८ ॥ - कीदृगित्यादि - हे अंशकिन्, विचारकारिन् पश्य, तावदनेन तु पुनराशुगेन वायुना कीदृग्दारुणमतिभयावहं चरित्रं चरितम् । चातकस्य चञ्चुमूले चिराद्दीर्घकालादपि पतद्यद्वारि जलं तदप्यत्र तूले प्रसङ्गे निवारितं दूरोत्सारितमास्ते । अर्थाद्दीनजनस्य हस्ते कदाचिद् यत्समायाति तदपि दुर्दैवेन विनश्यतीति । अन्योक्तिनामालङ्कारः ॥ १९ ॥ घनैरित्यादि - उडुवर्गो नक्षत्राणां समूहः स इह वर्षाकाले घनैर्मेघैरेव घनैर्लोहकुट्टनायुधैः पराभूतो भवन् लघुत्वं ह्रस्वाकारतामासाद्य सम्प्राप्य विचित्रः पूर्वस्मादाकारादन्यरूप एव सर्गो निर्माणो यस्य सोऽस्मिन् धराङ्के भूतले खमाकाशं द्योतयति स खद्योत इत्येवं तुल्या समानरूपाऽर्थस्य वृत्तिर्यत्र स प्रथितः प्रसिद्धिमवाप्तः सन् तन्नाम्ना चरित तावदित्यहं शङ्के मन्ये ।। २० ।। गतागतैरित्यादि इदानीं वर्षाकाले योषा नाम स्त्रीजातिः सा दोलासम्बन्धिनी या केलिः क्रीडा तस्यां दौलिककेलिकायां स्वार्थे कविधानात् । कीदृश्यां तस्यां मुहुर्मुहुः पौनःपुन्येन सम्प्राप्तः परिश्रमोऽ भ्यासो यस्यां तस्यां समीचीनस्तोषस्तृप्तिभावो यस्याः सा सुतोषा सती पुनश्च संलग्ना तेषु प्रसिद्धेषु पुरुषायितेषु पुरूषवच्चे ष्टितेषु निपुणस्य भावो नैपुण्यं कुशलत्वमुपैति ॥ २१ ॥ Jain Education International मुखश्रिय इत्यादि - शोभनौ बाहू यस्याः सा सुबाहुदलिनी दोलाकेलिभोक्त्री मुखश्रियः स्तेयिनं चौर्यकरम्, इन्दोरिदमैन्दवं बिम्बं चन्द्रमण्डलं बिम्बशब्दस्य पुनंपुसकत्वादिह पुंल्लिङ्गो ग्राह्यः । प्रहर्तुं समुद् यथा स्यात्तथा उपरि गच्छति, किन्तु तत्रापि व्योम्नि मुनयो महर्षयो राहुं नाम ग्रहं समाहुः कथयन्ति, योऽस्मन्मुखं चन्द्रमिति मत्वा कवलयिष्यतीति सञ्जातस्मरणा जवादेवापैति नीचैरायातीति पुनः पुनः करोति ॥ २२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002761
Book TitleVirodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherGyansagar Vagarth Vimarsh Kendra Byavar
Publication Year1996
Total Pages388
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy