Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 342
________________ errerrrrररररररर|249 सदुक्तय इत्यादि - रदालिरश्मिच्छलदीपवंशा, दन्तपङ्क्तिव्याजेन दीपसमूहतुल्या, या च अलसज्ञा न, आलस्यज्ञानरहिता सा श्रीमातुर्जनन्या रसज्ञा जिह्वा.सदुक्तये, सती चासावुक्तिस्तस्यै, अयनं अवकाशं मार्ग वा दातुमिव एवं प्रकाराऽभूत् । वक्ष्यमाणप्रकारेण प्रोवाचेत्यर्थः ॥ २० ॥ यथेच्छमित्यादि - भो सुदेव्यः हे देवलक्ष्म्यः, यथेच्छमिच्छानुरूपमापृच्छत प्रश्नसमाधानं कुरुत, युष्माभिरेव प्रभुर्जिनः सेव्यः सेवनीयोऽस्ति । अहमपि प्रभोरहत एवोपासिकाऽस्मीति शेषः । अतः शङ्काप्रश्न-समाधानरूपया नावा सङ्कोचो वार्धिरिवेति सङ्कोचवार्धिर्लज्जासागरः प्रतरेत तरीतुं शक्नुयादित्यर्थः ॥ २१ ॥ न चातकीनामित्यादि - यदि पयोदमाला मेघपङ्क्तिश्चातकीनां चातकस्रीणां पिपासां जलपानतृष्णां न प्रहरेत् न नाशयेत्तर्हि जन्मना सा किमु ? तस्या जन्मना कोऽर्थः ? न कोऽपीत्यर्थः । तथैवाहमपि युष्माकमाशङ्कितं संशयमुद्धरेयम्, अपहरेयम् । किञ्च तर्के सदसदूहे रूचिमिच्छां किं कथं न समुद्धरेयं धारयेयमवश्यमेव धारयेयमित्याशयः ॥ २२ ॥ नैसर्गिकेत्यादि - वितर्के, ऊहापोहे मेऽभिरूचिः कामना नैसर्गिकी स्वाभाविकी अस्ति । यथेह कर्के शुक्लाश्वे दर्पणे वा स्वाभाविकी अच्छता स्वच्छता भवति । अद्य विश्वम्भरस्य जगत्पालकस्य प्रभोः सती शोभना कपा दया, सुधेवामतमिव मे साहाय्यकरी साहाय्यदानशीला विभातु राजताम् । अत्र दृष्टान्तः, उपमा चालङ्कारः ॥ २३ ॥ इत्येवमित्यादि - अयि बुद्धिधार हे बुद्धिमन् मातुरित्येवं पूर्वोक्तप्रकारेण, आश्वासनतः साहाय्यदानवचनतः सुरीणा देवीनां सङ्कोचततिर्लज्जाभावविस्तरः सुरीणा विनष्टा बभूव । यथा प्रभातो दयत: उष:कालागमात्, अन्धकारसत्ता तम:स्थितिर्विनश्येत्रश्यति तथैवेति भावः अत्रापि दृष्टान्तोऽलङ्कारः ॥ २४ ॥ शिर इत्यादि - तदैव तस्मिन्नेव काले तासां देवीनां भक्तिरेव तुला तत्र स्थितं शिरो मस्तकं गुरुत्वादादरगौरवानतिं नम्रत्वमाप । सा कुङ्मलकोमला कलिकामृद्वी करद्वयी हस्तयुगलं समुच्चचाल, नत्यर्थमूर्ध्वमगमत्। नमस्कारार्थं पाणियुगलं शिरसा संयोजयामासुरित्यर्थः । चेति समुच्चये । एषा युक्तियोजनोचितैव । रूपकोऽलङ्कारः ॥ २५ ॥ मातुरित्यादि - भो जिनराज, भो देव, कुमारिकाणां सरोज इव शस्तौ कमलसुन्दरौ हस्तौ करौ चन्द्रमिवेन्दुमिव मातुर्जनन्या मुखमाननमेत्य प्राप्यैव तु सङ्कोचं कुङ्मलीभावमाप्तौ, यदेतद् युक्तमेव विभाति । यतो हि चन्द्रोदये कमलानि सङ्कु चन्त्येव नियमात् । अत्र उपमालङ्कारः ॥ २६ ॥ ललाटमित्यादि - तासां देवीनां ललाटमलिकमिन्दोरुचितमिन्दूिचितं चन्द्रतुल्यमेव, तथापि तन्मातुर्जनन्याः पादावब्ज इव पादाब्जे तयोश्चरणकमलयोरवाप प्राप्तम् । अयं भावः - लोके चन्द्रः कदाचिदपि कमलं नाप्रोति, परं तासां भालचन्द्रो मातुश्चरणकमलयोः प्राप्त इत्याश्चर्यम् । सा पूर्वोक्ताशाऽभूतपूर्वा अद्भु तेत्यवलोकनायाधुना तासां सकौतुका वाग्वाणी उदियाय प्रकटीबभूव, वक्ष्यमाणप्रकारेणेति शेषः । अत्र उपमा-उत्प्रेक्षा चालङ्कारः ॥ २७ ॥ दुख:मित्यादि - तदेवाह-हे मातः, जनो लोको दुःखं कष्टं कुतः कस्मादभ्येति प्राप्नोतीति प्रश्नः । पापादिति मातुरुत्तरम् । पापे कल्मषे धीर्बुद्धिः कुत इति प्रश्नः । अविवेकस्य तापः प्रतापस्तस्मादित्युत्तरम् । सोऽविवेकोऽज्ञानं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388