Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 327
________________ सररररररररररररगश्वररररररररररररररररर मृत्त्वमित्यादि - पूज्यपादो जैनेन्द्रव्याकरणे संज्ञासु मनुष्यादिषु शब्देषु मृत्त्वं मृदमिधेयत्वमधुमृदिति जगाद सूक्तवान् । किन्तु नृपोऽसकौ राजा धातुषु सुवर्णादिषु परस्य लोकस्योत्तरजन्मनो हेतोः कारणात् किं वा परेषां लोकानां हेतोरुद्वारकारणाद् ममत्वहीनो भवन् न तत्र रूप्यकादिषु ममत्वं कृतवान् । मृदो मृत्तिकाया भावं मृत्त्वं स कथितवान् यत्र पूज्यपादोऽपि मुनिर्धातुषु भूवादिषु मृत्त्वं न कथितवान् एवं तदेतदस्योज्ज्वला कीतिरेव केतुः पताका यस्य-तस्य राज्ञोऽस्ति धाम तेज एव यावत् ॥७॥ सा चेत्यादि - हे सखिराज, मित्रशिरोमणे, पश्य विचारय तावत् । यत्किल नृपनायकस्य सिद्धार्थस्य सा विद्या या लोकोत्तरत्वमसाधारणभावमितरजनेषु यथा न स्यात् तथात्वमाप समुपलेभे । यतः स मार्गणानां मङ्गतानां बाणानां चौघः समूहो यस्य सविधं समीपभावमाप, गुणस्तु यस्य यसोनामा दिगन्तगामी बभूव, दानित्वात्। इतरस्य जनसाधारणस्य धनुर्धरस्य बाणसमूहो दूरं याति, गुणः प्रत्यञ्चाभिधः समाकृष्टो भवतीति विचित्रवस्तु समाश्चर्यस्थानमेतत् यस्माद् ईदृशी चापविद्या क्वापि न दृष्टा, यादृशी सिद्धार्थस्याभूदिति ॥८॥ त्रिवर्गेत्यादि - प्रतिपतेव्युत्पत्तेः सारः सत्त्वभागो यत्र सोऽसौ राजा त्रयाणां वर्गाणां धर्मार्थकमाख्यानां भावात् परिणामात् स्वयमेवानायासेनैव चतुर्णा वर्णानां ब्राह्मणक्षत्रियवैश्यशूद्रनाम्नां विधिं विधानं चकार कृतवान् । ततोऽमुष्य भवे जन्मनि, अपवर्गस्य स्थितये मोक्षपुरुषार्थसम्पत्तयेऽनभिज्ञत्वमज्ञत्वं वेद, अद इदं ज्ञातवान् स तादृशो जनो नास्ति त्रिवर्गसम्पत्तेः अपवर्गसाधकत्वात् तथा च त्रिवर्गाणां क-च-ट-वर्गाणां भावात्सद्भावाद् ज्ञानादनन्तरं यः स्वयमेव चतुर्णा वर्णानां त-थ-द-धानां विधिं चकार । अत एव जनोऽमुष्यापवर्गास्थितये पवर्गस्योपपत्यभावार्थमद इदं नकारस्यानभिज्ञत्वं वेद, नकाराध्ययनात्पूर्व- पवर्गाध्ययनं कुतः स्यादित्यर्थः । श्लेषपूर्णा निन्दायां स्तुतिः ॥९॥ भुजङ्गत इत्यदि - अमुष्य राज्ञो भुजं कुटिलं गच्छतीति भुजङ्गस्ततोभुजङ्गतोऽसेः खङ्गादेव सात् मन्त्रिणः सचिवा अथ च गारुडिनोऽपि त्रातुं रक्षितुं क्षमाः समर्था न भवन्ति । यदि कदाचित् अवसरे स राज्ञोऽसि: कोपी कोपयुक्तो भवेच्चेत् इत्येवं विचायवारयः शत्रवः तस्यैव भूपस्याङ्घयोश्चरणयोर्ये नखा नखरा एव चन्द्रा दीप्तिमत्वात् तेषां कान्तिं र्योत्स्नामनुयान्ति स्वीकुर्वन्ति । श्लेषयुक्तो रूपकालङ्कारः ॥१०॥ हे तातेति - समुद्रं प्रति हे तात पूज्यवर, तव तनुजा लक्ष्मीर्या सा जानुर्जङ्घा तदुचितो लम्बो बाहुस्तत्प्रापको भुजो यस्य तस्य सिद्धार्थनामनपस्यानं शरीरं सभास्वपि किमुतान्यत्रेत्यपि शब्दार्थः । न विमुञ्चत्त्यजेदीदृशी लज्जारहिता जातेत्थं गदितुं वक्तुं तस्य राज्ञः कीर्तिः समुद्रस्यान्तं समीपमवाप । अहो-इत्याश्चर्ये ॥११॥ आकण्येत्यादि - चेद्यदि भूपालस्यास्य सिद्धार्थस्य यश-प्रशस्तिं विरुदावलिं चारणादिगीतामकर्ण्य श्रुत्वाऽऽश्तचर्यचकितः सन् शिरोधुनेत् धुनुचयात् कम्पं प्राप्नुयात्तदा भुवोऽपि स्थितिरेवं कथमेवं स्यान्नैव सम्भवितुं न शक्नुयादित्यनुमानजातात्परिज्ञानात् धाता पूर्वमेवाहिपतेः शेषस्य कणौं न चकार । सर्पजाते: श्रवणशक्तिसद्भावेऽपि कर्णयोराकाराभावमाश्रित्येत्थमुत्प्रेक्षितमस्ति ॥१२॥ विभूतिमत्वमित्यादि - विभूतिमत्वं सम्पत्तियुक्तत्वमत एव महेश्वरत्वं प्रभुत्वञ्च दधता सृष्टेः प्रजारूपाया: समुन्नतत्वं हर्षपूर्वकं नम्रभावं च व्रजता स्वीकुर्वताप्येनन जननायकेन राज्ञा कुतोऽपि व चिदपि प्रजावगें दृष्टवैषम्यं नेतं वैपरीत्यं न प्राप्तं कस्मैचिदपि विराधकत्वं नाङ्गीकृतमिति । लोकाभिमतो महेश्वरस्तु विभूतिमान् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388