Book Title: Virodaya Mahakavya
Author(s): Bhuramal Shastri
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

View full book text
Previous | Next

Page 323
________________ TUNTUT230 C M यत इत्यादि - तदेकवंशा तद्देशसमुद्भवा सरित्ततिर्नदीनां पङ्क्तिः सा सम्पल्लवम॒दुपत्रेरथ च केयूरादिविभूषणैरुद्यत्यारुणावरुद्धा, उल्लसन् यस्तरुरिति जात्यामेकवचनं तेन तरुसमूहेन पक्षे उल्लसद्भिस्तरुणैरवरुद्धापि समनुगृहीतापि सती, अतिवृद्धं गुरुतरं पक्षे स्थविरं तं जलधीश्वरं जलाशयानामधीशं समुद्रं पक्षे मूर्खशिरोमणिं याति प्राप्रोति, ततो निम्नगात्वस्य यः प्रतिबोधो विश्वासो जनेषु जातस्तं नुदति दूरोकरोतीत्येवंशीला न भवति। हा-इति खेदप्रकाशकरणे ॥१८॥ पद इतायदि - इदानीमस्मिन् देशे साम्प्रतमपि नाल्पमनल्पं जलं येषु तेऽनल्पजलास्तटाकाः सरांसि सन्ति। तथा समीचीनानां फलानां पुष्पाणां च पाकः परिणामो येषु तेऽनोकहा वृक्षाः संन्ति पदे पद एव तस्माद्धेतोर्धनिनां श्रेष्ठिनां सत्रस्य सदाव्रतस्थानस्य प्रपायाः पानीयशालायाश्च स्थापने विषये यानि वाञ्छितानि तानि व्यर्थानि भवन्ति तत्र तेषां प्रयोजना भावादिति ॥१९॥ विस्तारिणीत्यादि - यस्य देशस्य धेनुततिर्गोपरम्परा सा विस्तारिणी उत्तरोत्तरं विस्तरणशीला कार्तिरिव तथा चेन्दोश्चन्द्रस्य रुचिवदमृतस्रवा दुग्धदात्री यथा चन्द्रस्य दीप्तिः सुधामुत्पादयति तथा पुण्यस्य परम्परेव सुदर्शना शोभनाऽऽकृतिः स्वभावादेव विभ्राजते ॥२०॥ ___ अस्मिन्नित्यादि - इयद्विशाले पूर्वोक्तप्रकारवैभवविस्तारयुक्ते भुवः पृथिव्या भाले ललाट इव भासमानेऽस्मिन् देशे विदेहनाम्नि हे आले ! मित्रवर ! श्रीतिलकत्वं समादधत्स्वीकुर्वाणमस्ति तिलकं यथा ललाटस्यालङ्करणं तथैव यत्पुरं विदेहदेशस्याभूषणतया प्रतीयते यच्च जना:कुण्डिनमित्येतत्पदं पूर्व विद्यते यस्य तन्नाम पुरं कुण्डिनपुरमित्याहुः प्रोचुस्तदेव समङ्कितं वणयितुं मदीयबाहुर्याति प्रवर्तते साम्प्रतमिति शेषः ॥२१॥ ___ नाकामित्यादि - तत्पुरमहं नाकं स्वर्ग तथैवाकेन दुःखन रहितं नाकं सम्प्रवदामि यतो यत्र वसंन्तो निवसनशीला जना: सुरक्षणाः सुराणां देवानां क्षण इव क्षण उत्सवो येषां तथा च रलयोरभेदात्सुलक्षणा भवन्ति रामाः स्त्रियश्च सुरीत्येवंरूपांसम्बुद्धिमामन्त्रणमितास्सम्प्रप्तास्तथा शोभना रीतिःसुरीतिःसमीचीना बुद्धिःसम्बुद्धिःसुरीतौ सम्बुद्धिमिताः सरसचेष्टावत्य इत्यर्थः, राजा च सुना परमपुरुष: शीरस्य सूर्यस्य पुनीतं धाम तेज इव धाम यस्य सस्तथा सुनीशीरस्येन्द्रस्य पुनीतधामेव धाम यस्येति सुनीशीरपुनीतधामाऽस्ति ॥२२॥ ___अहोनेत्यादि - यत्पुरमनन्तालयसङ्कुलंस त् सम्भवत् अनन्तैरन्तवर्जितैरथ चानन्तस्य शेषनागस्यालयैः संकुलं व्याप्तं सत् न हीना अहीनाः सद्गुणसम्पन्नास्तेषां सन्तानैर्यद्वाऽहीनामिनः शेषस्तस्य सन्तान; स4. समर्थितत्वात् अथ च पुन्नगानां पुरुष श्रेष्ठानां कन्याभिः साध्वीभिस्तथा नागकन्याभिरञ्चितत्वात् नालोकस्य समानशंसं तुल्यरूपं विभाति शोभते ॥२३॥ समस्तीत्यादि - एष भोगीन्द्राणां सुखिनां यद्वा नागानां निवास एवेत्यतो वप्रस्य प्रकारस्य छलात् तस्य कुण्डिनपुरस्य मण्डलं परितः परिक्रम्य शेष एव समास्थितः । परिखामिषेण खातिकाश्छलेनाथ पुनरनु तत्समीपे निर्मोक एव तस्य कञ्चुकमेव बृहता विषेण जलेन सहितः समास्थित इति ज्ञायते ॥२४॥ लक्ष्मीमित्यादि - यस्येयं यदीया तां लक्ष्मीमनुभावयन्तो हठात्स्वीकुर्वन्तो जनाः पुनरिहागत्य वसन्तः सन्तीति रोषात् कोपवशात् किलैतत्परित उपरुद्धयासौ वारिराशि: स्वयं एव स्थितोऽस्थि परिखायाः खातिकाया उपचारः प्रकारो यस्य स इत्यत इन्प्रत्ययः ॥२५॥ Jain Education Intemational - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388