________________
TUNTUT230 C
M यत इत्यादि - तदेकवंशा तद्देशसमुद्भवा सरित्ततिर्नदीनां पङ्क्तिः सा सम्पल्लवम॒दुपत्रेरथ च केयूरादिविभूषणैरुद्यत्यारुणावरुद्धा, उल्लसन् यस्तरुरिति जात्यामेकवचनं तेन तरुसमूहेन पक्षे उल्लसद्भिस्तरुणैरवरुद्धापि समनुगृहीतापि सती, अतिवृद्धं गुरुतरं पक्षे स्थविरं तं जलधीश्वरं जलाशयानामधीशं समुद्रं पक्षे मूर्खशिरोमणिं याति प्राप्रोति, ततो निम्नगात्वस्य यः प्रतिबोधो विश्वासो जनेषु जातस्तं नुदति दूरोकरोतीत्येवंशीला न भवति। हा-इति खेदप्रकाशकरणे ॥१८॥
पद इतायदि - इदानीमस्मिन् देशे साम्प्रतमपि नाल्पमनल्पं जलं येषु तेऽनल्पजलास्तटाकाः सरांसि सन्ति। तथा समीचीनानां फलानां पुष्पाणां च पाकः परिणामो येषु तेऽनोकहा वृक्षाः संन्ति पदे पद एव तस्माद्धेतोर्धनिनां श्रेष्ठिनां सत्रस्य सदाव्रतस्थानस्य प्रपायाः पानीयशालायाश्च स्थापने विषये यानि वाञ्छितानि तानि व्यर्थानि भवन्ति तत्र तेषां प्रयोजना भावादिति ॥१९॥
विस्तारिणीत्यादि - यस्य देशस्य धेनुततिर्गोपरम्परा सा विस्तारिणी उत्तरोत्तरं विस्तरणशीला कार्तिरिव तथा चेन्दोश्चन्द्रस्य रुचिवदमृतस्रवा दुग्धदात्री यथा चन्द्रस्य दीप्तिः सुधामुत्पादयति तथा पुण्यस्य परम्परेव सुदर्शना शोभनाऽऽकृतिः स्वभावादेव विभ्राजते ॥२०॥
___ अस्मिन्नित्यादि - इयद्विशाले पूर्वोक्तप्रकारवैभवविस्तारयुक्ते भुवः पृथिव्या भाले ललाट इव भासमानेऽस्मिन् देशे विदेहनाम्नि हे आले ! मित्रवर ! श्रीतिलकत्वं समादधत्स्वीकुर्वाणमस्ति तिलकं यथा ललाटस्यालङ्करणं तथैव यत्पुरं विदेहदेशस्याभूषणतया प्रतीयते यच्च जना:कुण्डिनमित्येतत्पदं पूर्व विद्यते यस्य तन्नाम पुरं कुण्डिनपुरमित्याहुः प्रोचुस्तदेव समङ्कितं वणयितुं मदीयबाहुर्याति प्रवर्तते साम्प्रतमिति शेषः ॥२१॥ ___ नाकामित्यादि - तत्पुरमहं नाकं स्वर्ग तथैवाकेन दुःखन रहितं नाकं सम्प्रवदामि यतो यत्र वसंन्तो निवसनशीला जना: सुरक्षणाः सुराणां देवानां क्षण इव क्षण उत्सवो येषां तथा च रलयोरभेदात्सुलक्षणा भवन्ति रामाः स्त्रियश्च सुरीत्येवंरूपांसम्बुद्धिमामन्त्रणमितास्सम्प्रप्तास्तथा शोभना रीतिःसुरीतिःसमीचीना बुद्धिःसम्बुद्धिःसुरीतौ सम्बुद्धिमिताः सरसचेष्टावत्य इत्यर्थः, राजा च सुना परमपुरुष: शीरस्य सूर्यस्य पुनीतं धाम तेज इव धाम यस्य सस्तथा सुनीशीरस्येन्द्रस्य पुनीतधामेव धाम यस्येति सुनीशीरपुनीतधामाऽस्ति ॥२२॥ ___अहोनेत्यादि - यत्पुरमनन्तालयसङ्कुलंस त् सम्भवत् अनन्तैरन्तवर्जितैरथ चानन्तस्य शेषनागस्यालयैः संकुलं व्याप्तं सत् न हीना अहीनाः सद्गुणसम्पन्नास्तेषां सन्तानैर्यद्वाऽहीनामिनः शेषस्तस्य सन्तान; स4. समर्थितत्वात् अथ च पुन्नगानां पुरुष श्रेष्ठानां कन्याभिः साध्वीभिस्तथा नागकन्याभिरञ्चितत्वात् नालोकस्य समानशंसं तुल्यरूपं विभाति शोभते ॥२३॥
समस्तीत्यादि - एष भोगीन्द्राणां सुखिनां यद्वा नागानां निवास एवेत्यतो वप्रस्य प्रकारस्य छलात् तस्य कुण्डिनपुरस्य मण्डलं परितः परिक्रम्य शेष एव समास्थितः । परिखामिषेण खातिकाश्छलेनाथ पुनरनु तत्समीपे निर्मोक एव तस्य कञ्चुकमेव बृहता विषेण जलेन सहितः समास्थित इति ज्ञायते ॥२४॥
लक्ष्मीमित्यादि - यस्येयं यदीया तां लक्ष्मीमनुभावयन्तो हठात्स्वीकुर्वन्तो जनाः पुनरिहागत्य वसन्तः सन्तीति रोषात् कोपवशात् किलैतत्परित उपरुद्धयासौ वारिराशि: स्वयं एव स्थितोऽस्थि परिखायाः खातिकाया उपचारः प्रकारो यस्य स इत्यत इन्प्रत्ययः ॥२५॥
Jain Education Intemational
-
For Private & Personal Use Only
www.jainelibrary.org