SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Teeeeee 229 C 1 अनल्पेत्यादि - तस्मिन् विदेहदेशे ग्रामास्त्रिदिवः सुरालय एवोपमानमुपमाविषयो येषां ते लसन्ति । पीतमालीढमम्बरं गगनं यैस्तानि च तानि धामानि अनल्पनि च पीताम्बरधामानि तै रम्या मनोहरा ग्रामा एवं पवित्राणि पद्मानि कमलानि यत्र ता आपो जलानि येषु तानि सरांसि येषु सन्ति ते । अनेके कल्पा भेदा येषां तेऽनेककल्पास्तेषां द्रुमाणां तरुणां संविधानं सम्भावनं येषु ते तत एवादम्या दमितुं पराभवितुमयोग्या ग्रामा । सुरालयश्च पीताम्बरस्य इन्द्रस्थ धामभिस्तावद्रम्यो भवति, पद्मा तथाऽप्सरसोऽपि स्वर्वेश्यास्तत्र भवन्ति, कल्पद्रुमा अपि सन्त्येवेति । श्लेषोपमा ॥१०॥ शिखावलीत्यादि - शिखया खचूलिकयाऽवलीढं स्पृष्टमभ्रं गननं यैस्तत्तयाऽटूटा अखण्डरूपेण स्थिता नूतनस्य तत्कालोत्पन्नस्य धान्यस्य कृटा राशयो ये बहिः स्थिता ग्रामेभ्यो बाह्यमीम्नि वर्तमानास्तेऽपि पुनः प्राच्याः पूर्वदिशात: प्रतीचीं पश्चिमदिशां व्रजतो निरन्तरं पर्यटतोऽव्जपस्य सूर्यस्य तस्य विश्रामशैला इव भान्ति ॥ ११ ॥ पृथ्वीत्यादि - प्रफुल्लन्ति विकसन्ति यानि स्थलपद्मानि तान्येव नेत्राणि तेषां प्रान्तेऽग्रभागे निरन्तरमविच्छिन्नतयाऽऽत्तानां समागता नामलीनां भ्रमराणां कुलस्य प्रसक्तिं संसर्गमेवाञ्जनौघः कज्जलकुलं दधती स्वीकुर्वतीयमत्र प्रान्तस्य पृथ्वी हे सखे पाठक ! आत्मीयमात्मसम्बन्धिसौभाग्यमेवाभिव्यनक्ति प्रकाशयति ॥१२॥ धान्येत्यादि धान्यस्थली शस्यभूमिस्तस्या ये पालकास्तेषां या बालिकाः क्षेत्ररक्षां कर्तुमुपस्थितास्तासां विनोदवशाद्गायन्तीनां गीत श्रुतेरतिशयमाधुर्याद्धे तोर्निश्चलतां श्रवणसन्निहिर्ताचत्ततया निष्प्रकम्पभावं दधानां स्वीकुर्वन्तः कुरङ्गरङ्का शस्यास्वादनार्थमायाता दीना मृगा अपि तत्राध्वनीनस्य पथिकस्य चित्ते विलेप्यशङ्कां अमी विलेपात् काष्ठ - पाषाणादितः सम्भवा विलेप्या न तु साक्षाद्रूप इति भ्रान्तिमुत्पादयन्ति । संशयालङ्कारः ॥१३॥ सम्पल्लवत्वेनेत्यादि - यस्मिन् देशे वृक्षाः समीचीनाः पल्लवाः पत्राणि सम्पल्लवास्तथा सम्पदां सम्पत्तीनां लवा अंशास्तत्त्वेन हेतुना जनानामागतलोकानां छायादिदानेन पक्षे भोजनादिना हितमुत्पादः यन्तो वीनां पक्षिणां नयं समागमनलक्षणं नीतिप्रकारं दधानाः पक्षे विनयं नम्रत्वं स्वीकुर्वाणा एव सुष्ठु पन्थाः सुपथस्तस्यैकशाणा अद्वितीयतया द्योतका भवन्तः सफलं फलैराम्रदिभिः सहितं फलेन सत्कृतेन वा सहितं ब्रुवाणां प्रकटयन्तो लसन्ति ||१४|| निशास्वित्यादि - हे नाथ प्रभो ! इह अस्मिन् देशे या श्रीसरितां नदीनां ततिः परम्पराऽस्ति सा निदाघकाले ग्रीष्मसमयेऽपि कूलमतिक्रम्यातिकूलं यथा स्यात्तथा प्रसन्नरूपा सती वहति, वर्षाकाल इवानल्पजलतयैव प्रचरति । यद्यस्मात् कारणात् निशासु रात्रिषु चन्द्रोदये सति चन्द्रोपलभित्तिभ्यश्चन्द्रकान्तघटितप्रदेशेभ्यो निर्यतो निर्गच्छतो जलस्य प्लवः प्रवाहो यस्याः सा तादृशी भवति ॥१५॥ यदीयेत्यादि इयं भूः स्वयमपि विश्वस्य हितायोपकारायैका किलााऽद्वितीया अत एव पूता पुनीता तामनन्यभूतामितरत्रासम्भविनीं यदीयां सम्पत्तिं वीक्षितुमेव विस्फालितानि समुन्मीलितानि लोचनानि यया सेव विभाति, यत उत्फुल्लानां विकसितानां नीलाम्बुरूहाणामिन्दीवराभिधानामनुभावः प्रभावो यस्याः सा सदैव तिष्ठति ॥१६॥ - वणिक्पथेत्यादि - वणिक्पथेषु विपणिस्थानेषु स्तूपिता उच्छिखीकृता वस्तूनां पदार्थानां विक्रयार्थं जूटाः संग्रहास्ते चाऽऽपदं प्रतिस्थानमेवोल्लसन्तस्तिष्ठन्ति ते बहिष्कृतां निष्कासितामापदं विपत्तिं हसन्तः सन्तितमां ते हरिप्रियायाः कमलायाश्च केलिकूटाः क्रीडापर्वता इव वा सन्ति ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002761
Book TitleVirodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherGyansagar Vagarth Vimarsh Kendra Byavar
Publication Year1996
Total Pages388
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy