________________
सररररर|228
द्वितीयः सर्गः द्वीप इत्यादि - अथ जम्बूपपदो नाम द्वीपः समस्ति, असावेवासकावयमेव स च स्थित्याऽऽसनेन तु सर्वेषां द्वीपानां मध्ये गच्छतीति प्रशस्तिः प्रख्यातिर्यस्य स किन्तु नास्ति अन्या काचिदुपमा यस्यास्तया लक्ष्म्या स्वकीयया शोभया उपविष्टोऽवस्थित तु अन्ये द्वीपा धातकीखण्डादयस्ते द्वीपान्तरास्तेषामुपरि प्रतिष्ठा यस्यैतादृक् भाति ॥१॥
संविदित्यादि - सुराद्रिः सुमेरुरित्येतादृक् दम्भोमिषस्तेनोदस्ता समुत्थापिता स्वहस्तस्याङ्गलिर्येन सोऽयं द्वीपोऽङ्गिनं प्रतीतीव किं वक्ति कथयति - भो महाशय, यदि वृत्तं सदाचरणमेव वस्तु पाथेयं मार्गोपयोगिद्रव्यं त्वयाऽऽप्तं लब्धमस्ति तदा तु पुनरितः स्थानात् सिद्धिं मुक्तिनगरी प्रगुणां सरलां सहजप्राप्यामेव संविद्धि जानीहि ॥२॥
अधस्थेत्यादि - अधस्तिष्ठति स च यो विस्फारी प्रलम्बमानश्च योऽसौ फणीन्द्रः शेषो लोकख्यात्या स एव दण्डो यस्य सोऽसौ वृत्ततया वर्तुलतयाऽखण्डः सन् छत्रमिवाचरति छत्रायते यश्च सुदर्शन इत्येवं प्रकार उत्तमोऽत्यन्तोन्नतो यः शेलस्तस्य दम्भो मिषो यस्मिस्तं सुवर्णस्य कुम्भपपि स्वयमेव समाप्नोति ॥३॥
सुवृत्तभावेनेत्यादि - अस्य द्वीपस्य सुवृत्तभावेन वर्तुलाकारतया, पूर्णमास्यां भवति स पौर्णमास्यो योऽसौ सुधांशुश्चन्द्रस्तेन सार्धमिहोपमा तुलना कर्तुं योग्या । यतो यत्परितः परिक्रम्य वर्तमानोऽसावम्बुराशिलवणसमुद्रः स समुल्लसन् प्रकाशमानः कुण्डिनवत् परिवेषतुल्यो विलासो यस्य स तथाभूतोऽस्ति ।४।।
तत्त्वानीत्यादि - अयमुपर्युक्तो द्वीपः सप्त क्षेत्राणि तत्त्वानि जैनागमवत् विभर्ति, जैनागमे यथा सप्त तत्त्वानि तथैवेह सप्त क्षेत्राणिः । तत्रापि सप्तसु पुनरसकौ भारतनाम वर्षस्तत्त्वेषु जीव इवाग्रवर्ती सर्वप्रधानः सदक्षिणो यमदिग्गतो बुद्धिसहितो वा अतश्चाप्तहर्षः प्रारब्धप्रमोदभावः ॥५॥
श्रीभारतमित्यादि - अस्य द्वीपस्य श्रीभारतं नाम तत्प्रसिद्धं शस्तं प्रशंसायोग्यं क्षेत्रं सन्निगदामि यत्किल सदेवानां वषभादितीर्थकराणामागमः समत्पादस्तस्य वारि जन्माभिषेकजातं ततोऽथवा तेषामेवागमः सदपदेशस्तस्य वारितो वचनतः स्वर्गश्चापवर्गश्च द्वौ किलादिर्येषां चक्रवर्ति-बलभद्र-नारायणत्वानामभिधानमेव शस्यं धान्यं पुण्यविशेषमुत्पादयद्वर्तते यत् ॥६॥
हिमालयेत्यादि - भोः पाठका एष भारतवर्ष एतस्य द्वीपानामधिपस्य जम्बूद्वीपस्य राज्ञः क्षत्रस्येदं क्षात्रं यद्यशस्तदनुपततीति सःक्षत्रियत्वप्रकाशक इत्यर्थः । धनुर्विशेष एवास्ति यतोऽसौ हिमालय एवोल्लासी स्फीतिधरो गुणः प्रत्यञ्चापरिणामो यस्य तथा वाराशिलवणसमुद्र एव वंशस्थितिर्वेणुस्थानीयो यस्य स एतावान् विभाति। रूपकालङ्कारः ॥७॥
श्रीत्यादि - श्रीयुक्ता सिन्धुश्च गङ्गा च तयोर्मध्येऽन्तरतस्तिर्यक् स्थितेन वर्तमानेन पूर्वश्चापरश्च पूर्वापरौ यावम्भोनिधी ताभ्यां संहितेन संस्पृष्टेन शैलेन वैताढ्यनाम्ना भिन्नेऽत्र भारतवर्षे षट्खण्डके सति पुनस्तत्रार्यशस्तिरार्यखण्डनामकोऽयं ज्योतिःशास्त्रविहिते षड्वर्गके स्वोच्चवर्ग इव सर्वप्रधानोऽस्ति ॥८॥
तस्मिन्नित्यादि - तस्मिन्नेतस्मिन् आर्यखण्डे विदेहदेशे इत्येवमुचितमभिधानं नाम यस्य स स्वं स्वकीयमुत्तमत्वं प्रधानत्वं दधान एको विषयो देशोऽस्ति, स च वपुषि शरीरे शिर:समानः प्रतिभाति, स एवाधुना नोऽस्माकं गिरा वाचा सक्रियते व्यावय॑ते ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org