________________
यज्ञार्थत्यिादि-रसाशिश्नयोर्जिबागोन्द्रिययोर्वशंगतैरधीनैरत-एवाशस्तैरप्रशंसायोग्यैस्तैर्धतैलोकै,एते दस्यमानाः पशवश्छागादयो यज्ञार्थं यज्ञे बलिदानार्थमेव वेधसा सृष्टास्तावन्नह्येतेषामन्यः कश्चिदुपयोग इत्येवंरूपा भ्रष्टा या काचिदुक्तिः सा बहुशोप्यनेकरूपेणाभितस्यसर्वत्रैव प्राचालि प्रचारमिता तदानीम् ॥३०॥ ___ किं छाग इत्यादि - अधुनेति तत्कालीनविषयं स्वसंवैदनगोचरीकृत्योक्तमस्ति ततस्तदानीं किं छागः किं महिषः किमश्वः किं गौरेवं नरोऽपि स्वरसेण यदृच्छया शश्वद्वारं वारं वैश्वानरस्य वढेरिन्धनतामवाप धूर्तेस्तस्मिन् हुत आसीत् । अहिंसाविधये तु पुनराप एव दत्ता जलाञ्जलिरेव सम्पादितः ॥३१॥
__ धूतैरित्यादि - जनस्य सर्वसाधारणस्य सा दृक् बुद्धिधूतैर्वाचालैः समाच्छादि संवरणं नीता वेदस्य चार्थस्तादृक् हिंसापरक एव समवादि प्रत्युक्त इतस्ततः सर्वत्रैव पैशाच्यं परास्रपिपासुत्वमभूत् यतः कारणादियं भूः स्वयमपि रक्तमयि जाता । अहो इतायश्चर्ये ॥३२॥
परइत्यादि-सर्व एव लोकोऽन्यजनस्यापकारे दुःखोत्पादने परस्तल्लीनःसमभूत्तु पुनः परोपकारः परस्मायनुग्रहबुद्धिः खर्व उत्तरोत्तरं क्षीणातामवाप्तः वर्वो नृशंस एव जनः सम्माननीयत्वमवाप स्वागतं लेभे । इत्यातोऽधिकमहं वो युष्माकं किं पुनर्वच्मि ॥३३॥
श्मश्रमित्यादि - लोकोऽयं सर्वोऽपि स्वकीयां श्मश्रृं कूर्चततिं वलयन् समर्थयन् व्यभावि दृष्ट आसीत्, यद्यस्मात्कारणादस्येह मत्सद्दशो नास्तिकोऽप्यनन्य' इत्यनन्यतायाः स्वार्थपरताया अनसि शकटरूपे मनसि दर्पोऽभिमान आविरभूत्समजनि, अपि च तत एव साधुताया भद्रभावस्य नामलेशोऽपि नासीत् ॥३४॥ ।
समक्षत इत्यादि - अपायात् पापादविभ्यता भयमदधता जनेन जगतां प्राणिनामम्बिका प्रतिपालिकेयमिति तस्या देव्या अपि समक्षतस्तत्पुत्रकाणामजादीनां निगले किं पुनरन्यत्र, तेनासिस्थितिरङ्किताऽऽसीत्खङ्गप्रहारः कृत इत्यनेनैव कारणेनेयं धरा दुराशीर्दुरभिप्रायाऽभूत ॥३५॥ ।
परस्परेत्यादि - तदानीं परस्परस्येतरेतरविषयको यो द्वेषस्तन्मयी प्रवृत्तिरभूत् यत एकः कश्चिदप्यन्यजीवाय समात्ता समुत्थापिता कृत्तिश्छुरिका येनैतावानेवासीत् यस्य कोपि कोपयुक्तं चित्तं नाभूदेतावान्कोऽपि जनो न व्यभावि, प्रत्युत शान्तं मनुष्यं जनोऽपवित्तं दरिद्रमकर्तव्यशीलं मन्यते स्म तदानीमिति ॥३६॥
भूय इत्यादि - स्वपुत्रकाणामेतेषां देहिनां तत्तादृक् चिह्नमुदीक्ष्य भूवो हृदा भूयो वारं वारं विभिन्न मुहुः भूकम्पनमभूदिति ता एता दिशोऽन्धकारानुगता इव बभूवुः किञ्चैतन्नाभो गगनमपि चाधस्ताद्रन्तुमिवावाञ्छदितः ॥३७॥
मन इत्यादि - वक्रस्य भावो वक्रिया तस्य कल्पः समुत्पादस्तस्य हेतुः साधनमहिवत् सर्पस्येव मनो बभूव, वाणी चान्यस्य मर्म भेत्तुं कृपाणीव छुरिका सदृशी तीक्ष्णा जाता, कायश्चायं जनस्य जगते सम्पूर्णप्राणिवर्गायाकस्य दुःखस्यायः समागमो यतः स दुःखद एवाभूत्, तदानी कोऽपि जनः कस्यापि वश्य आज्ञाकारी नासीत् ॥३८॥
___ इतीत्यादि - इत्येवमुपर्युक्तप्रकारेण दुरितमेवान्धकारः स एवास्तिक आत्मा यस्य तस्मिन् तथा क्षतात्त्रायन्ते ते क्षत्राः परपरित्राणकरा क्षत्रिया न भवन्ति, तेषामोघेनाथ च नक्षत्रौघेण तारकासमूहेन संकुले व्याप्तेऽत एव निशीवथ इवाघमये पापबहुले तस्मिन्समये जनानामाह्लादनाय वीर इत्याह्वयो नाम यस्यस एव वरःसर्वोत्तमःसुधास्पदश्चन्द्रमास्तेनाजनि जन्म लब्धम् ॥३९॥
इति प्रथमः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org