________________
द्वितीयोन्मेष:
यत्र रूढेर संभाव्यधर्माध्यारोपगर्भता । सद्धर्मातिशयारोपगर्भत्वं वा प्रतीयते ॥ ८ ॥ लोकोचर तिरस्कार र लाग्योत्कर्षाभिधित्स्या । वाच्यस्य सोच्यते कापि रूढिवैचित्र्यवक्रता ॥ ६ ॥
१९३.
जहाँ पर वाच्य अर्थ के सर्वातिशायी तिरस्कार अथवा प्रशंसनीय उत्कर्ष को बताने की इच्छा से, रूढि के द्वारा सम्भव न हो सकने वाले अध्यारोप के अभिप्राय का भाव, अथवा पदार्थ के किसी विद्यमान धर्म के अतिशय को प्रतिपादित करने के अभिप्राय का भाव प्रतीत होता है वह कोई अलौकिक रूढि शब्द के वैचित्र्य का वक्रभाव ( रूढिवैचित्र्यवक्रता ) होता है ।। ८-९ ।।
यत्र रूढरसंभाव्यधर्माध्यारोपगर्भता प्रतीयते । शब्दस्य नियतवृत्तिता नाम धर्मो रूढि रुच्यते, रोहणं रूढिरिति कृत्वा । सा च द्विप्रकारा संभवति - नियत सामान्यवृत्तिता नियतविशेषवृत्तिता । तेन रूढिशब्देनात्र रुढिप्रधानः शब्दोऽभिधीयते, धर्मधर्मिणोरभेदोपचारदर्शनात् । यत्र यस्मिन् विषये रूढिशब्दस्य असंभाव्यः संभा वयितुमशक्यो यो धर्मः कश्वित्परिस्पन्दस्तस्याध्यारोपः समर्पणं गर्भोऽभिप्रायो यस्य स तथोक्तस्त स्य भावस्तत्ता सा प्रतीयते प्रतिपद्यते । यत्रति संबन्धः । सद्धर्मातिशयारोपगर्भत्वं वा । संश्वासौ धर्मश्व सद्धर्मः विद्यमानः पदार्थस्य परिस्पन्दस्तस्मिन् यस्य कस्यचिदपूर्वस्यातिशयस्याद्भुतरूपस्य माहिम्न श्रारोपः समर्पणं गर्भोऽभिप्रायो यस्य स तथोक्तस्तस्य भावस्तत्त्वम् । तच्च वा यस्मिन् प्रतीयते । केन हेतुनालोकोत्तरतिरस्कारश्लाघ्योत्कर्षाभिधित्सया । लोकोत्तरः सर्वातिशायी यस्तिरस्कारः खली करणं श्लाध्यश्च स्पृहणीयो य उत्कर्षः सातिशयत्वं तयोरभिधित्सा श्रभिघातुमिच्छा वक्तुकामता तया । कस्य वाच्यस्य । रूढि शब्दस्य वाच्यो योऽभिधेयोऽर्थस्तस्य । सोच्यते कथ्यते काप्यलौकिकी रूढि वै चित्र्यवत्रता । रूढिशब्दस्यैवंविधेन वैचिश्येण विचित्रभावेन वक्रता वक्रभावः । तदिदमत्र तात्पर्यम् - यत्सामान्यमात्रसंस्पशिनां शब्दाना मनु मानव नियतविशेषालिंगनं यद्यपि स्वभावादेव न किचिदपि संभवति, तथाप्यनया युक्त्या कविविवक्षितनियतविशेषनिष्ठतां नीयमानाः कामपि चमत्कारकारितां प्रतिपद्यन्ते । यथा
१३ व० जी०