Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
व्रतादिपालनम्
KOLKO-Ko-Ko-KeXo-Ko-Ko-KOKOKOKOTKE
प्रव्रज्य च यदसौ कृतवांस्तदा(यथाऽसौ आत्मानमनुशासितवांस्तथाऽऽ)हजहिज सग्गंथ (जहित्तु संगं च, जहाय संगं च पा०) महाकिलेस, महंतमोहं कसिणं भयावहं ।
परियायधम्म चभिरोअइज्जा, वयाणी सीलाणि परीसहे य ।। ७६९ ॥ जहीत्यादि गाथाः १३, हित्वा सङ्गं-स्वजनादिसम्बन्धं, चः पूरणे, महान् केशो-दुःखं यस्मात् यस्मिन्वा तं महान् मोहोऽभिष्वङ्गो यस्मात् यस्मिन् वा तं, कृष्णं वा कृष्णलेश्यापरिणामहेतुत्वाद्भयानकं, कृत्स्नं कृष्णं-समस्तमहाक्लेशरूपत्वादेव विवेकिनां भयावह, पर्यायः प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, चः पादपूरणे, ततोऽभ्यरोचयेत-अमिरोचितवांस्तदनुष्ठानविषयां प्रीतिं कृतवान् , आर्षत्वात् यस्तन्यर्थे सप्तमी, यद्वा आत्मानमेवायमनुशास्ति, यथा हे आत्मन्-सङ्गं त्यक्त्वा प्रव्रज्यापर्यायधर्ममेव अभिरोचयेः, पर्यायधर्ममेव विशेषत आह-व्रतानि-महाव्रतानि शीलानि पिण्डविशुद्ध्याद्युत्तरगुणरूपाणि परीषहाणीति भीमसेनन्यायेन परीषहसहनानि च ॥ ११ ॥ ७६९ ॥ एतदभिरुच्यनन्तरं यत्कृतवांस्तदाह
अहिंस सच्चं च अतेणगं च, तत्तो अबंभं अपरिग्गह (अब्बंभपरिग्गरं पा०)च।
पडिवज्जिया पंच महत्वयाणि, चरिज धम्मं जिणदेसियं विऊ ।। ७७० ॥ अहिंसा सत्यं चास्तैन्यकं च, ततश्च ब्रह्मचर्यमपरिग्रहं प्रतिपद्य-अङ्गीकृत्य पञ्च महाव्रतान्युक्तरूपाणि प्राग्वत् अचरत्-असेवत, यद्वाहेआत्मन् चरेत्-सेवेत, उभयत्र नाङ्गीकृत्यैव तिष्ठेदिति भावः, धर्म-श्रुतचारित्ररूपं जिनदेशितं विद्वान्-जानानः॥१२॥७७०॥
Jain Education
onal
For Private & Personal use only
Mainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408