Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रथनेमिरहमिति, अनेनात्मनि रूपवत्त्वाद्यभिमानतः स्वप्रकाशनं, तस्या अभिलाषोत्पादनार्थ विश्वासहेतुमन्यशङ्कानिरासार्थ वा खनामाख्यानं, मां भजस्व-सेवस्व, सुतनु ! न ते-तव पीडा-बाधा भविष्यति, सुखहेतुत्वाद् विषयासेवनस्येति भावः, यद्वा तां ससम्भ्रमां दृष्ट्वा एवमाह-मा मा भैषीः सुतनु ! यतो न ते कस्यचिदिह पीडाहेतोरभावात् , पीडाशङ्कया च भयं स्यादित्येवमुक्तम् ॥ ३७॥ ८१९ ॥
एहि ता भुजिमो भोगे, माणुस्सं खु सुदुल्लहं । भुत्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥८२०॥ एहि-आगच्छ, तस्मात्तावद्वा मानुष्यं, खुरिति निश्चितं, सुदुर्लभं, तदेतदवाप्ताविदमपि तावद्भोगरूपमस्य फलं उपभुकुमहे इत्यर्थः, भुक्तभोगाः पुनः पश्चाद्वार्धिक्ये जिनमार्ग-जिनोक्तमुक्तिपथं चरिष्यामः॥३८॥८२०॥ ततो राजीमती किमचेष्टतेत्याह
दढुण रहनेमि तं, भग्गुज्जोयपराइयं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ८२१ ॥ गाथाः ७ स्पष्टा एव, नवरं भग्नोद्योगः-अपगतोत्साहः, प्रस्तावात् संयमे स चासौ पराजितश्च स्त्रीपरीपहेण भग्नोद्योगपराजितस्तं, असम्भ्रान्ता नायं बलादकार्ये प्रवर्तयितेत्यभिप्रायेणात्रस्ता, आत्मानं समवारीत्-आच्छादितवती चीवरैरिति गम्यं, | तस्मिन्-लयनमध्ये ॥ ३९ ॥ ८२१॥
___ अह सा रायवरकन्ना, सुट्टिया नियमबए । जाई कुलं च सीलं च, रक्खमाणी तयं वदे ।। ८२२॥
सुस्थिताः-निश्चलाः नियमव्रते-इंद्रियनोइन्द्रियनियमे प्रव्रज्यायां च, रक्षन्ती, शीलध्वंसे कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनया ते अपि विनाशिते स्यातामित्येवमुक्तम् ॥४०॥८२२॥
रथनेमिप्रति राजीमत्याः शीलरक्षणात्मकं वचः
DXXX RXXXX
उत्तरा०३१
Jain Educa
t ional
For Privale & Personal use only
w.jainelibrary.org

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408