Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ KOKeXOXOXOXOXOXOXOXOXOXOXO) ततःपुरिमा उजुजडा उ, वक्क(प्र० वंक)जड्डा य पच्छिमा। मज्झिमा उजुपन्ना उ, तेण धम्मे दुहा कए ॥८५७॥ पूर्वे-प्रथमतीर्थकृत्साधवः, ऋजवश्च प्राञ्जलतया जडाश्च दुष्प्रतिपाद्यतया ऋजुजडाः, तुरिति यस्मात् , वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकानेककुविकल्पतो विवक्षितार्थप्रतिपत्त्यक्षमतया वक्रजडाः, चः समुच्चये, पश्चिमाः-पश्चिमतीर्थकृत्साधवः, मध्यमास्तु पुनः ऋजवश्च ते प्रकर्षेण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितमर्थ ग्राहयितुं शक्यन्त इति ऋजुप्रज्ञाः, तेन हेतुना धर्मो द्विभेदः कृतः, एककार्यप्रतिपन्नत्वेऽपीति प्रक्रमः ॥ २६ ॥ ८५७ ॥ पूर्वादीनामेवंविधत्वेऽपि कुत एतद् द्वैविध्यमित्याहपुरिमाणं दुविसुज्झो उ, चरिमाणं दुरणुपालओ। कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ ॥ ८५८॥ पूर्वेषां दुःखेन विशोधयितुं-निर्मलतां नेतुं शक्यते दुर्विशोध्यः, कल्प इति सम्बन्धः, ते हि अतिऋजुतया गुरुभिरनुशिष्यमाणा अपि न तदनुशासनं स्वप्रज्ञाऽपराधाद्यथावत्प्रतिपत्तुं क्षमन्ते, अतस्तेषां दुर्विशोध्य इत्युच्यते, तुशब्द उत्तरेभ्यो विशेष द्योतयति, चरमाणां दुःखेनानुपाल्यत इति दुरनुपालः, स एव दुरनुपालकः, कल्पः-यतिक्रियाकलापः, ते हि वक्रत्वेन कुविकल्पाकुलचित्ततया कथञ्चित् जानाना अपि न यथावदनुष्ठातुमीशते इति, मध्यमकानां तु सुविशोध्यश्चस्य गम्यत्वात् सुपाल-16 कश्च, कल्प इतीहापि योगः, ते हि ऋजुप्रज्ञा इति सम्यग्मार्गानुसारिबोधतया सुखेनैव यथावदवगच्छन्ति पालयन्ति च, अतो चतुर्यामे पञ्चव्रते च प्रश्नः १ उत्तरा०३२ indo For Private & Personal use only

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408