Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रथनेमी
उत्तरा० अवचूर्णिः
यमध्ययनम्
॥१८८॥
२२
मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वसाधनानि च हेतुत्वात् मोक्षसद्भूतसाधनानि, कानि? इत्याह, ज्ञानं च दर्शनं चैव चारित्रं च, एवोऽवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनतां व्यवच्छिनत्ति, ज्ञानाद्येव मुक्तिहेतुः, न तु लिङ्गमिति, श्रूयते हि भरतादीनां लिङ्गं विनापि केवलोत्पत्तिः, निश्चये इति निश्चयनये विचार्ये, व्यवहारनये तु लिङ्गस्यापि कथञ्चित् मुक्तिसद्भूतहेतुता इष्यत एव, कोऽर्थः ?-निश्चयो लिङ्गं प्रत्याद्रियत एव न, व्यवहार एव तु तदिच्छतीति, तद्भेदस्य ततोऽकिञ्चित्करत्वान्न विदुषां विप्रत्ययहेतुता ॥ ३३ ॥ ८६४ ॥
साह गोयम! पन्ना ते०॥८६॥ इत्थं महाव्रतात्मकधर्मविषयं वेषात्मकलिङ्गभेदविषयं च शिष्याणां विप्रत्ययमपनीय प्रसङ्गतस्तेषामेव व्युत्पत्त्यर्थ जानन्नपि अपरमपि वस्तुतत्त्वं पृच्छन् केशिरन्योऽपि संशय इत्याद्याह ॥ ३४ ॥ ८६५ ॥ __ शत्रूणां पराजय इत्येतदधिकृत्याहअणेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा! । ते अ ते अभिगच्छंति, कहं ते.निजिया तुमे ? ॥ ८६६॥
अनेकानां-बहूनां सहस्राणां प्रक्रमात् शत्रुसम्बन्धिनां मध्ये तिष्ठति गौतम ! तवानेकसहस्रसङ्ख्याः शत्रवस्ते इति त्वां अभिलक्षीकृत्य गच्छन्ति-धावन्ति अर्थात् जेतुं, दृश्यते तत् जयफलमपि प्रशमादि तव, तत्कथं-केन प्रकारेण ते शत्रवः निर्जिताः त्वया ॥ ३५ ॥ ८६६॥
XOXOXOXOXOXOXOXXX
BXXXXXXXXXXX
शत्रुपराजये प्रश्नः३
८॥
Jain Education inlai
For Privale & Personal use only
inelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408