Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इत्थं केशिनोक्ते गौतम आह
एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सबसत्तू जिणामहं ॥ ८६७॥ एकस्मिन् सर्वभावारिमुख्ये आत्मनि जिते-अभिभूते जिताः पञ्च, कथं ?-एकः स एवान्ये चत्वारः कषायाः, तथा सूत्रत्वात् पञ्चसु जितेषु जिता दश, पञ्चेन्द्रियक्षेपात् , ततो दशधा-दशप्रकारानुक्तरूपान् पुनर्जित्वा सर्वशत्रून-कषायादीन् , तदुत्तरोत्तरभेदांश्चानेकसहस्रसङ्ख्यान् जयाम्यहं, तदनेन पूर्वप्रधानजयो जयनप्रकार उक्तः ॥ ३६॥ ८६७ ॥ ततश्च
सत्तू अ इइ के वुत्ते ?, केसी गोयममब्बवी । तओ केसिं० ॥ ८६८ ॥ चः पूरणे, इति भिन्नक्रमः, जातावेकवचनं, ततः 'शत्रुः क उक्त' इति केशिर्गौतममब्रवीत् , ननु यद्यसौ शत्रूनपि न वेत्ति तत्कथं तन्मध्यगतस्त्वं तिष्ठसीत्यादिकमनेन प्रागुक्तं ?, उच्यते, अज्ञप्रतिबोधनार्थ सर्वा अपि ज्ञपृच्छा एवैताः, उत्तरार्द्ध प्राग्वत् ॥ ३७॥ ८६८॥
एगप्पो अजिए सत्त, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुणी ॥ ८६९॥ एक आत्मा जीवश्चित्तं वा अजितः-अवशीकृतः, अनेकानावाप्तिहेतुतया शत्रुरिव शत्रुः, तथा उक्तहेतोरेव कषायाःक्रोधादयः, इन्द्रियाणि-स्पर्शनादीनि, चान्नोकषाया कषायाद्युत्तरोत्तरभेदाश्चाजिताः शत्रव इति वचनविपरिणामेन योज्यं, इह
शत्रुपराजये प्रश्नः३
Jain Education X
onal
For Privale & Personal use only
Yavjainelibrary.org

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408