Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा० अवचूर्णिः
KON
केशिगीतमीयमा ध्ययनम्
॥१८३॥
२३
गाथात्रयं, तस्य-पार्श्वनाम्नः, लोकस्य प्रदीप इव प्रदीपस्तद्गतसर्ववस्तुप्रकाशकतया तस्य आसीत् , शिष्यः केशी-केशिनामा कुमारश्चासावपरिणीततया श्रमणश्च-तपस्वितया कुमारश्रमणः, विद्या-ज्ञानं, चरणं-चारित्रं विद्याचरणे तयोः ज्ञानचारित्रयोः पारगः-पर्यन्तगामी विद्याचरणपारगः ॥२॥८३३ ॥
ओहिनाणसुए बुद्धे, सीससंघसमाउले। गामाणुगाम रीयंते, सेऽवि सावत्थि(प्र०सावत्थिनयरि)मागए ॥ ८३४॥
सुव्यत्ययाद् अवधिज्ञानश्रुताभ्यां "मइपुवं जेण सुअं" इत्यागमान्मतिपूर्वकतया श्रुतस्य, मत्या च बुद्धः-अवगततत्त्वः, शिष्याणां सङ्घन-समूहेन समाकुलः-परिवृतः शिष्यसङ्घसमाकुलः, रीयमाणः-विहरन् श्रावस्तीनाम्नी नगरीमागतः ॥३॥८३४॥
तिंदुयं नाम उज्जाणं, तंमि नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ ८३५ ॥ तस्याः-श्रावस्त्याः नगरमण्डले-पुरपरिसरे, प्रासुके-स्वाभाविकागन्तुकजीवरहिते, क्वेत्याह-शय्या-वसतिस्तस्यां संस्तारकःशिलाफलकादिस्तस्मिन् शय्यासंस्तारके, तत्रेति तिन्दुकोद्याने वासं-अवस्थानं उपागतः-प्राप्तः॥४॥ ८३५ ॥
अत्रान्तरे यदभूत्तदाह
अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सव्वलोगंमि विस्सुए ।। ८३६ ॥ गाथाचतुष्टयं स्पष्टमेव, नवरं अथेति वक्तव्यतान्तरोपन्यासे, सुब्व्यत्ययात् तस्मिन्नेव काले वर्द्धमाननाम्ना अभूदिति शेषः, विश्रुतः-विख्यातः ॥५॥८३६ ।।
केशिकुमारस्य श्रावस्त्यामागमनम्
6XXOXOXOXOXOXOXOX
॥१८३ ॥
Jain Education
ona
For Privale & Personal use only
jainelibrary.org

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408