Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 384
________________ केशिगौतमीयमध्ययनम् उत्तरा० चिन्तास्वरूपमाहअवचूर्णिः | केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो? । आयारधम्मप्पणिही, इमा वा सा व केरिसी? ॥ ८४२॥ कीदृशः-किंस्वरूपः, वा-विकल्पे पुनरर्थे वा, अयं-अस्मत्सम्बन्धी, धर्मः-महाव्रतात्मकः, धर्मशब्दाग्रस्थवाशब्दस्य भिन्न॥१८४॥X क्रमत्वात् अयं वा दृश्यमानगणभृच्छिष्यसम्बन्धी धर्मः कीदृशः?, आचारो-वेषधारिणादिको बाह्यः क्रियाकलाप इत्यर्थः, स एव धर्मस्तस्य प्रणिधिः-व्यवस्थापनं आचारधर्मप्रणिधिः, प्राकृतत्वादयं वा अस्मत्संबन्धी, प्राकृतत्वात् स वा द्वितीययतिसत्का, अस्माकं अमीषां च सर्वज्ञोक्त एव धर्मस्तत्किमस्यैतत्साधनानां च भेद इत्येतद् जिज्ञासामहे इति भावः ॥ ११॥ ८४२॥ उक्तामेव चिन्ता व्यक्तीकर्तुमाहचाउजामो अ जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ ८४३॥ चातुर्यामो-महाव्रतचतुष्टयात्मको यो धर्मो देशितः-कथितः पार्श्वनेति सम्बन्धः, चकारस्य प्रश्लेषाद्यश्चायं पञ्च शिक्षा:प्राणातिपातादिविरमणोपदेशात्मिका सञ्जाता यस्मिन् असौ पञ्चशिक्षितः, तारकादेराकृतिगणत्वादिवत् प्रत्ययः, वर्द्धमानेन देशित इति योगः, सुब्व्यत्ययात् महामुनीत्युभयोरपि विशेषणं, महामुनीनां च, अनयोर्विशेषे किं नु कारणमित्युत्तरेण सम्बन्धः, PA अनेन धर्मविषयः संशयो व्यक्तीकृतः॥१२॥ ८४३॥ सम्प्रत्याचारधर्मप्रणिधिविषयं तमेवाभिव्यनक्तिअचेलगो अ जो धम्मो, जो इमो संतरुत्तरो। एगकजपवन्नाणं, विसेसे किं नु कारणं? ॥ ८४४॥ exoxoxoxox-oXXXo चतुर्यामपञ्चमहाव्रतरूपधर्मे किं कारणम् ॥१८४॥ Jain Education india For Privale & Personal use only Binelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408