________________
केशिगौतमीयमध्ययनम्
उत्तरा०
चिन्तास्वरूपमाहअवचूर्णिः | केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो? । आयारधम्मप्पणिही, इमा वा सा व केरिसी? ॥ ८४२॥
कीदृशः-किंस्वरूपः, वा-विकल्पे पुनरर्थे वा, अयं-अस्मत्सम्बन्धी, धर्मः-महाव्रतात्मकः, धर्मशब्दाग्रस्थवाशब्दस्य भिन्न॥१८४॥X
क्रमत्वात् अयं वा दृश्यमानगणभृच्छिष्यसम्बन्धी धर्मः कीदृशः?, आचारो-वेषधारिणादिको बाह्यः क्रियाकलाप इत्यर्थः, स एव धर्मस्तस्य प्रणिधिः-व्यवस्थापनं आचारधर्मप्रणिधिः, प्राकृतत्वादयं वा अस्मत्संबन्धी, प्राकृतत्वात् स वा द्वितीययतिसत्का, अस्माकं अमीषां च सर्वज्ञोक्त एव धर्मस्तत्किमस्यैतत्साधनानां च भेद इत्येतद् जिज्ञासामहे इति भावः ॥ ११॥ ८४२॥
उक्तामेव चिन्ता व्यक्तीकर्तुमाहचाउजामो अ जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ ८४३॥ चातुर्यामो-महाव्रतचतुष्टयात्मको यो धर्मो देशितः-कथितः पार्श्वनेति सम्बन्धः, चकारस्य प्रश्लेषाद्यश्चायं पञ्च शिक्षा:प्राणातिपातादिविरमणोपदेशात्मिका सञ्जाता यस्मिन् असौ पञ्चशिक्षितः, तारकादेराकृतिगणत्वादिवत् प्रत्ययः, वर्द्धमानेन
देशित इति योगः, सुब्व्यत्ययात् महामुनीत्युभयोरपि विशेषणं, महामुनीनां च, अनयोर्विशेषे किं नु कारणमित्युत्तरेण सम्बन्धः, PA अनेन धर्मविषयः संशयो व्यक्तीकृतः॥१२॥ ८४३॥
सम्प्रत्याचारधर्मप्रणिधिविषयं तमेवाभिव्यनक्तिअचेलगो अ जो धम्मो, जो इमो संतरुत्तरो। एगकजपवन्नाणं, विसेसे किं नु कारणं? ॥ ८४४॥
exoxoxoxox-oXXXo
चतुर्यामपञ्चमहाव्रतरूपधर्मे किं कारणम्
॥१८४॥
Jain Education india
For Privale & Personal use only
Binelibrary.org