Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 375
________________ •*•*•*• इत्थं चासौ तावदस्थिता यावदन्यत्र प्रविहृत्य तत्रैव स्वाम्यगात्, तत उत्पन्नवैराग्या किं कृतवतीत्याह अह सा भमरसंनिभे, कुच्चफणगप्पसाहिए। सयमेव लुंबई केसे, धिइमंती ववस्सिया ।। ८१२ ॥ अथानन्तरं सा राजीमती भ्रमरसन्निभान् कृष्णतया कूर्चे- गूढकेशोन्मोहको वंशमयः, फनकः - कङ्कतकस्ताभ्यां प्रसाधिताः संस्कृता ये तान् कूर्चफनकप्रसाधितान् स्वयमेव-आत्मनैव लुञ्चति - अपनयति, स्वाम्यनुज्ञयेति गम्यं, केशान् धृतिमती व्यवसिता - अध्यवसिता सती, धर्मं कर्तुमिति शेषः ॥ ३० ॥ ८१२ ॥ वासुदेवो अ णं भणइ, लुत्तकेसिं जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं हुं ॥ ८१३ ॥ तत्प्रव्रज्याप्रतिपत्तौ वासुदेवगाथा स्पष्टा, नवरं तर उल्लङ्घय लघु-त्वरितं त्वरितं सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ ८१३ ॥ तदुत्तरवक्तव्यतामाह सा पवईया संती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुआ ॥ ८१४ ॥ गाथाः ४ स्पष्टा एव, नवरं सा राजीमती प्रावीत्रजत् - प्रब्राजितवती तस्यां द्वारकापुरि ॥ ३२ ॥ ८१४ ॥ गिरिं रेवययं जंती, वासेणोल्ला उ अंतरा । वासंते अंध्यारंमि, अंतो लयणस्स सा ठिया ॥। ८१५ ।। रैवतकं-उज्जयन्तं यान्ती - गच्छन्ती, स्वामिवन्दनार्थमिति गम्यं, वर्षेण-वृष्ट्या आर्द्रा- स्तिमितसर्वचीवरा, अन्तरा - अर्द्धपथे, वर्षात नीरदे इति गम्यं, अन्धकारे - अप्रकाशे, कस्मिन् ? - अन्तः - मध्ये लयनस्य - गुहायाः सा स्थिता, असंयमभीरुतयेति गम्यम् ।। ३३ ।। ८१५ । Jain Educatiomational For Private & Personal Use Only ************** गुहायां राजीमत्या गमनम् ww.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408