SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ •*•*•*• इत्थं चासौ तावदस्थिता यावदन्यत्र प्रविहृत्य तत्रैव स्वाम्यगात्, तत उत्पन्नवैराग्या किं कृतवतीत्याह अह सा भमरसंनिभे, कुच्चफणगप्पसाहिए। सयमेव लुंबई केसे, धिइमंती ववस्सिया ।। ८१२ ॥ अथानन्तरं सा राजीमती भ्रमरसन्निभान् कृष्णतया कूर्चे- गूढकेशोन्मोहको वंशमयः, फनकः - कङ्कतकस्ताभ्यां प्रसाधिताः संस्कृता ये तान् कूर्चफनकप्रसाधितान् स्वयमेव-आत्मनैव लुञ्चति - अपनयति, स्वाम्यनुज्ञयेति गम्यं, केशान् धृतिमती व्यवसिता - अध्यवसिता सती, धर्मं कर्तुमिति शेषः ॥ ३० ॥ ८१२ ॥ वासुदेवो अ णं भणइ, लुत्तकेसिं जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं हुं ॥ ८१३ ॥ तत्प्रव्रज्याप्रतिपत्तौ वासुदेवगाथा स्पष्टा, नवरं तर उल्लङ्घय लघु-त्वरितं त्वरितं सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ ८१३ ॥ तदुत्तरवक्तव्यतामाह सा पवईया संती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुआ ॥ ८१४ ॥ गाथाः ४ स्पष्टा एव, नवरं सा राजीमती प्रावीत्रजत् - प्रब्राजितवती तस्यां द्वारकापुरि ॥ ३२ ॥ ८१४ ॥ गिरिं रेवययं जंती, वासेणोल्ला उ अंतरा । वासंते अंध्यारंमि, अंतो लयणस्स सा ठिया ॥। ८१५ ।। रैवतकं-उज्जयन्तं यान्ती - गच्छन्ती, स्वामिवन्दनार्थमिति गम्यं, वर्षेण-वृष्ट्या आर्द्रा- स्तिमितसर्वचीवरा, अन्तरा - अर्द्धपथे, वर्षात नीरदे इति गम्यं, अन्धकारे - अप्रकाशे, कस्मिन् ? - अन्तः - मध्ये लयनस्य - गुहायाः सा स्थिता, असंयमभीरुतयेति गम्यम् ।। ३३ ।। ८१५ । Jain Educatiomational For Private & Personal Use Only ************** गुहायां राजीमत्या गमनम् ww.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy