Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
बाह्यमध्याभ्यन्तरपर्षत्त्रयोपेता निष्क्रमणमिति-प्रक्रमान्निष्क्रमणमहिमानं तस्य भगवतोऽरिष्ठनेमिनः कर्तु, जे इति पूरणे ॥२१॥८०३॥
देवमणुस्सपरिखुडो, सीबियारणं तओ समारूढो। निक्खमिय बारगाओ, रेवययंमि ठिओ भयवं ॥ ८०४॥ शिबिकारत्न-देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, ततः तदनन्तरं समारूढो-अध्यासीनः, निष्क्रम्य-निर्गत्य द्वारिकातः रैवतक-उजयन्ते स्थितः ।। २२ ॥ ८०४ ॥
तत्रापि कतरं प्रदेशं प्राप्तः स्थितश्चेत्याहउजाणे संपत्तो, ओइन्नो उत्तमाउ सीयाओ। साहस्सीए परिवुडो, अह निक्खमइ उ चित्ताहि ॥ ८०५॥ उद्यानं-सहस्राम्रवननामकं प्राप्तः, तत्र च अवतीर्णः शिबिकातः, सहस्रेण पुरुषाणामिति गम्यं परिवृतः, अथ-अनन्तरं निष्कामति-श्रामण्यं प्रतिपद्यते, तुः पूरणे, चित्रासु-चित्रानाम्नि नक्षत्रे ॥ २३ ॥ ८०५ ॥
कथमित्याहअहसो सुगंधगंधिए, तुरियं मउअकुंचिए। सयमेव लुचई केसे, पंचट्ठाहिं (प्र. द्वाहिं, मुट्ठीहिं) समाहिओ॥८०६॥ । सुगन्धिगन्धिकान् त्वरितं-शीधं मृदुककुञ्चितान्-कोमलकुटिलान् स्वयमेव लुञ्चति-अपनयति पञ्चमुष्टिभिः, समाहितः| समाधिवान् , सर्व सावद्यं ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् । इह तु वन्दिकाचार्यः सत्वमोचनसमये सारस्वतादिबोधनभवनगमनमहादानानन्तरं निष्क्रमणाय पुरीनिर्गमनमवर्णयत् ॥ २४ ॥ ८०६॥
XXXXXXXXXXXXX
नेमिनाथप्रभोर्निष्क
मणम्
Jain Education
LEDional
For Privale & Personal use only
oildrjainelibrary.org

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408