________________
बाह्यमध्याभ्यन्तरपर्षत्त्रयोपेता निष्क्रमणमिति-प्रक्रमान्निष्क्रमणमहिमानं तस्य भगवतोऽरिष्ठनेमिनः कर्तु, जे इति पूरणे ॥२१॥८०३॥
देवमणुस्सपरिखुडो, सीबियारणं तओ समारूढो। निक्खमिय बारगाओ, रेवययंमि ठिओ भयवं ॥ ८०४॥ शिबिकारत्न-देवनिर्मितमुत्तरकुरुनामकमिति गम्यते, ततः तदनन्तरं समारूढो-अध्यासीनः, निष्क्रम्य-निर्गत्य द्वारिकातः रैवतक-उजयन्ते स्थितः ।। २२ ॥ ८०४ ॥
तत्रापि कतरं प्रदेशं प्राप्तः स्थितश्चेत्याहउजाणे संपत्तो, ओइन्नो उत्तमाउ सीयाओ। साहस्सीए परिवुडो, अह निक्खमइ उ चित्ताहि ॥ ८०५॥ उद्यानं-सहस्राम्रवननामकं प्राप्तः, तत्र च अवतीर्णः शिबिकातः, सहस्रेण पुरुषाणामिति गम्यं परिवृतः, अथ-अनन्तरं निष्कामति-श्रामण्यं प्रतिपद्यते, तुः पूरणे, चित्रासु-चित्रानाम्नि नक्षत्रे ॥ २३ ॥ ८०५ ॥
कथमित्याहअहसो सुगंधगंधिए, तुरियं मउअकुंचिए। सयमेव लुचई केसे, पंचट्ठाहिं (प्र. द्वाहिं, मुट्ठीहिं) समाहिओ॥८०६॥ । सुगन्धिगन्धिकान् त्वरितं-शीधं मृदुककुञ्चितान्-कोमलकुटिलान् स्वयमेव लुञ्चति-अपनयति पञ्चमुष्टिभिः, समाहितः| समाधिवान् , सर्व सावद्यं ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् । इह तु वन्दिकाचार्यः सत्वमोचनसमये सारस्वतादिबोधनभवनगमनमहादानानन्तरं निष्क्रमणाय पुरीनिर्गमनमवर्णयत् ॥ २४ ॥ ८०६॥
XXXXXXXXXXXXX
नेमिनाथप्रभोर्निष्क
मणम्
Jain Education
LEDional
For Privale & Personal use only
oildrjainelibrary.org