________________
उत्तरा० अवचूर्णिः
रथनेमी
यमध्ययनम्
॥१७८॥
XXXXXXXXXXXXX
इत्थं सारथिनोक्ते यद्भगवान् कृतवांस्तदाह
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुकोसे जिएहि उ॥ ८०० ॥ तस्य सारथेः बहूनां प्राणानां विनाशनं-हननमदभिधेयं यस्मिन् तद्बहुप्राणविनाशनं स भगवान् सानुक्रोशः-सकरुणः जीवेषु, तुः पूरणे ॥ १८ ॥ ८००॥ जइ मज्झ कारणा एए, हम्मंति(हम्मिहंति पा०) सुबह जिया। न मे एयं तु निस्सेसं, परलोगे भविस्सई ।। ८०१॥
मम कारणाद्-हेतोरेते हन्यन्ते, हनिष्यन्त इत्यर्थः, सुबहवो जीवाः, एतज्जीवहननं, तुरेवार्थः नेत्यनेन योज्यते, ततो न तु-नैव निःश्रेयसं-कल्याणं परलोके भविष्यति, पापहेतुत्वादस्येति भावः, भवान्तरेषु च-परलोके भीरुत्वस्यात्यन्तमभ्यस्ततया एवमभिधानं, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानित्वाच्च कुत एवंविधचिन्ताऽवसरः॥ १९ ॥ ८०१॥
एवं च ज्ञातस्वाम्याकूतेन सारथिना मोचितेषु सत्त्वेषु परितोषतोऽसौ यत्कृतवांस्तदाह
सो कुंडलाण जुयलं, सुत्तगं च महायसो। आभरणाणि य सवाणि, सारहिस्स पणामई ॥ ८०२॥ सूत्रकं च-कटीसूत्रकं, अर्पयतीति योगः, आभरणानि च-शेषाणि सर्वाणीति गम्यम् ॥ २० ॥ ८०२॥ मणपरिणामोअकओ, देवाय जहोइयं समोइन्ना (वइया पा०)। सबिड्डीइ सपरिसा, निक्खमणं तस्स काउंजे॥८०३॥
ततश्च मनःपरिणामश्च-अभिप्रायः कृतो, निष्क्रमणं प्रतीतिगम्यं, देवाश्च यथोचितं-औचित्यानतिक्रमेण समवतीर्णाः, चकाराभ्यां चेह समुच्चयार्थाभ्यामपि तुल्यकालताया ध्वन्यमानत्वात् तदैवेति गम्यते, सर्वा-समस्तविभूत्या, स परिषदो
XXXXXXXXX
प्राणिगणनिमोचनम्
॥१७८॥
Xo
Jain Education
a
l
For Privale & Personal use only
Invejainelibrary.org