________________
प्राणिविषयक
प्रश्नोत्तरः
तथा-जीवितान्तं-मरणं सम्प्राप्तानिव सम्प्राप्तान , अतिप्रत्यासन्नत्वात्तस्य, मांसार्थ-मांसनिमित्तं भक्षयितव्यान् , यद्वा 'मांसेन | मांसमुपचीयत' इति प्रवादतो मांसमुपचितं यथा स्यादिति मांसार्थ भक्षयितव्यान् अविवेकिभिरिति शेषः, दृष्ट्वा, कोऽर्थः ?
उक्तविशेषणविशिष्टान् हृदि निधाय स अरिष्ठनेमिः, महती प्रज्ञा-प्रक्रमान्मतिश्रुतावधिज्ञानात्मिका यस्यासौ महाप्रज्ञः, Xसारथिं-प्रवर्तयितारं प्रक्रमात् गन्धहस्तिनो, हस्तिमित्यर्थः, यद्वा अत एव तदा रथारोहणमनुमीयत इति रथप्रवर्त्तयितारम् |
॥ १५॥ ७९७॥ कस्स(अ) इमे पाणा, एए स ( बहुपाणे० पा० )सुहेसिणो । वाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छहि ? ॥७९८॥ ___ कस्यार्थाद्-हेतोः इमे प्राणा एते सर्वे, इमे इत्यनेनैव गम्यते एते इति पुनरभिधानमतिसार्द्रहृदयतया पुनः पुनस्त एव भग
वतो हृदि विपरिवर्तन्त इति ख्यापनार्थ, यद्वा इमे प्रत्यक्षाः, एते समीपतरवर्तिनः, सुखैषिणः-साताभिलाषिणः सन्निरुद्धाः, चः X| पूरणे, आसते ॥ १६ ॥ ७९८ ॥
एवं च भगवतोक्तेअह सारही तो भणइ, एए भद्दा उ पाणिगो। तुझं विवाहकजंमि, भोआवेडं बहुं जणं ॥ ७९९ ॥ अथ च भगवद्वचनानन्तरं भद्रा एव-कल्याणा एव, ननु शृगालादिवत् कुत्सिताः, अनपराधितया वा भद्राः, तव विवाहकार्ये भोजयितुं, अनेन यदुक्तं कस्यादिति तत्प्रत्युत्तरमुक्तम् ॥ १७ ॥ ७९९ ॥
Jain Education
anal
For Privale & Personal use only
A
jainelibrary.org