Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 372
________________ उत्तरा० अवचूर्णिः रथनेमी यमध्ययनम् ॥१७८॥ XXXXXXXXXXXXX इत्थं सारथिनोक्ते यद्भगवान् कृतवांस्तदाह सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुकोसे जिएहि उ॥ ८०० ॥ तस्य सारथेः बहूनां प्राणानां विनाशनं-हननमदभिधेयं यस्मिन् तद्बहुप्राणविनाशनं स भगवान् सानुक्रोशः-सकरुणः जीवेषु, तुः पूरणे ॥ १८ ॥ ८००॥ जइ मज्झ कारणा एए, हम्मंति(हम्मिहंति पा०) सुबह जिया। न मे एयं तु निस्सेसं, परलोगे भविस्सई ।। ८०१॥ मम कारणाद्-हेतोरेते हन्यन्ते, हनिष्यन्त इत्यर्थः, सुबहवो जीवाः, एतज्जीवहननं, तुरेवार्थः नेत्यनेन योज्यते, ततो न तु-नैव निःश्रेयसं-कल्याणं परलोके भविष्यति, पापहेतुत्वादस्येति भावः, भवान्तरेषु च-परलोके भीरुत्वस्यात्यन्तमभ्यस्ततया एवमभिधानं, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानित्वाच्च कुत एवंविधचिन्ताऽवसरः॥ १९ ॥ ८०१॥ एवं च ज्ञातस्वाम्याकूतेन सारथिना मोचितेषु सत्त्वेषु परितोषतोऽसौ यत्कृतवांस्तदाह सो कुंडलाण जुयलं, सुत्तगं च महायसो। आभरणाणि य सवाणि, सारहिस्स पणामई ॥ ८०२॥ सूत्रकं च-कटीसूत्रकं, अर्पयतीति योगः, आभरणानि च-शेषाणि सर्वाणीति गम्यम् ॥ २० ॥ ८०२॥ मणपरिणामोअकओ, देवाय जहोइयं समोइन्ना (वइया पा०)। सबिड्डीइ सपरिसा, निक्खमणं तस्स काउंजे॥८०३॥ ततश्च मनःपरिणामश्च-अभिप्रायः कृतो, निष्क्रमणं प्रतीतिगम्यं, देवाश्च यथोचितं-औचित्यानतिक्रमेण समवतीर्णाः, चकाराभ्यां चेह समुच्चयार्थाभ्यामपि तुल्यकालताया ध्वन्यमानत्वात् तदैवेति गम्यते, सर्वा-समस्तविभूत्या, स परिषदो XXXXXXXXX प्राणिगणनिमोचनम् ॥१७८॥ Xo Jain Education a l For Privale & Personal use only Invejainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408