SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ रथनेमिरहमिति, अनेनात्मनि रूपवत्त्वाद्यभिमानतः स्वप्रकाशनं, तस्या अभिलाषोत्पादनार्थ विश्वासहेतुमन्यशङ्कानिरासार्थ वा खनामाख्यानं, मां भजस्व-सेवस्व, सुतनु ! न ते-तव पीडा-बाधा भविष्यति, सुखहेतुत्वाद् विषयासेवनस्येति भावः, यद्वा तां ससम्भ्रमां दृष्ट्वा एवमाह-मा मा भैषीः सुतनु ! यतो न ते कस्यचिदिह पीडाहेतोरभावात् , पीडाशङ्कया च भयं स्यादित्येवमुक्तम् ॥ ३७॥ ८१९ ॥ एहि ता भुजिमो भोगे, माणुस्सं खु सुदुल्लहं । भुत्तभोगा पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥८२०॥ एहि-आगच्छ, तस्मात्तावद्वा मानुष्यं, खुरिति निश्चितं, सुदुर्लभं, तदेतदवाप्ताविदमपि तावद्भोगरूपमस्य फलं उपभुकुमहे इत्यर्थः, भुक्तभोगाः पुनः पश्चाद्वार्धिक्ये जिनमार्ग-जिनोक्तमुक्तिपथं चरिष्यामः॥३८॥८२०॥ ततो राजीमती किमचेष्टतेत्याह दढुण रहनेमि तं, भग्गुज्जोयपराइयं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ८२१ ॥ गाथाः ७ स्पष्टा एव, नवरं भग्नोद्योगः-अपगतोत्साहः, प्रस्तावात् संयमे स चासौ पराजितश्च स्त्रीपरीपहेण भग्नोद्योगपराजितस्तं, असम्भ्रान्ता नायं बलादकार्ये प्रवर्तयितेत्यभिप्रायेणात्रस्ता, आत्मानं समवारीत्-आच्छादितवती चीवरैरिति गम्यं, | तस्मिन्-लयनमध्ये ॥ ३९ ॥ ८२१॥ ___ अह सा रायवरकन्ना, सुट्टिया नियमबए । जाई कुलं च सीलं च, रक्खमाणी तयं वदे ।। ८२२॥ सुस्थिताः-निश्चलाः नियमव्रते-इंद्रियनोइन्द्रियनियमे प्रव्रज्यायां च, रक्षन्ती, शीलध्वंसे कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनया ते अपि विनाशिते स्यातामित्येवमुक्तम् ॥४०॥८२२॥ रथनेमिप्रति राजीमत्याः शीलरक्षणात्मकं वचः DXXX RXXXX उत्तरा०३१ Jain Educa t ional For Privale & Personal use only w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy