Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 360
________________ उत्तरा० अवचूर्णिः ॥ १७२ ॥ 8-0-0-0-0-0-01-01 POXXX8X सबहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी । सावज्जजोगे परिवज्जयंतो, चरिज्ज भिक्खू सुसमाहिइंदिए । ७७१ ॥ सुब्व्यत्ययात्सर्वेषु - अशेषेषु प्राणिषु दयया- हितोपदेशरूपया रक्षणरूपया वा अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या, नत्वशक्त्या क्षमते- प्रत्यनीकाद्युक्तदुर्वचनादिकं सहते इति क्षान्तिक्षमः, संयत इति संयतः स चासौ ब्रह्मचारी च सः पूर्वत्र ब्रह्मप्रति पत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थ, अनेन च मूलगुणरक्षणोपाय उक्तः ॥ १३ ॥ ७७१ ॥ काले कालं विहरिज रहे बलाबलं जाणिय अप्पणी अ । सीहो व सद्देण न संतसिज्ञा, वड्जोग सुच्चा न असम्भमाहू || ७७२ ॥ कालेन-पादोनपौरुष्यादिना कालं कालोचितं प्रत्युपेक्षणादि कुर्वन्निति शेषः व्यहरत् राष्ट्रे-मण्डले बलाबले सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वा आत्मनो यथा यथा संयमयोगहानिर्न जायते तथा तथा इति भावः, अन्यच्च - सिंह इव शब्देन प्रस्तावाद्भयोत्पादकेन 'न समत्रस्यत्' - नैव सत्त्वाञ्च्चलितवान् सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात्, अत एव वाग्योगमर्थादुःखोत्पादकं श्रुत्वा च नो-नैव असभ्यं - अशीलरूपं आहुत्ति-उक्तवान्, आत्मानुशासनपक्षे तु कालेन कालं विहरेत्, तथा सिंह इव शब्देन न संत्रस्येत् न सत्वाच्चलेत्, हे आत्मन् भवानिति सर्वत्र गम्यं, नासभ्यं आर्षत्वात् ब्रूयात् शेषं प्राग्वत् ॥ १४ ॥ ७७२ ॥ Jain Education International For Private & Personal Use Only Ko XX X * * * * * * * XX समुद्र पालीयम ध्ययनम् २१ सिंहव निर्भीकता ॥ १७२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408