Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 362
________________ उत्तरा० अवचूर्णिः ॥ १७३ ॥ तत्त्ववृत्त्या सम्प्रकरोति-भृशं विधत्ते, अपेर्गम्यत्वात् भिक्षुरपि, अत इत्थमित्थं च तद्गुणोक्तिरिति भावः, यद्वा इत्थमित्थं चात्मानुशासनमिति भावः, अपरं च - भय भैरवा - भयोत्पादकत्वेन भीषणाः तत्र ब्रह्मप्रतिपत्ता उद्यन्ति - उदयं यान्ति, उपसर्गा इति गम्यं, भयभैरवा इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनार्थ, दिव्या मानुष्यका अथवा तैरश्वाः ॥ १६ ॥ ७७४ ॥ परीसहा दुबिसहा अणेगे, सीयंति जत्था बहुकायरा नरा । से तत्थ पत्ते न वहिन पंडिए, संगामसीसे इव नागराया ॥ ७७५ ॥ तथा परीषहा दुर्विषहाः, अनेके उद्यन्तीति सम्बन्धः, सीदन्ति - संयमं प्रति शिथिलीभवन्ति यत्र - येषूपसर्गेषु परीषहेषु च सत्सु सः तत्र तेषु वचनव्यत्ययात्प्राप्तेषु प्राप्तो वा - अनुभवनद्वारेणायातो न व्यथेत्-न सत्त्वाच्चलेत् भिक्षुः सङ्ग्रामशीर्ष इव - युद्धप्रकर्ष इव नागराजो - गजेन्द्रः, आत्मानुशासनपक्षे तु 'से' इत्यथ, तेषु प्राप्तेषु पाप्तो वा न व्यथेत-न सत्वाच्चलेत् बिभीयात् वा भवान् शेषं प्राग्वत् ॥ १७ ॥ ७७५ ॥ सीओसिणा दंसमसगा य फासा, आयंका विविहा फुसति देहं । अक्कुक्कुओ (अकक्करे पा० ) तत्थऽहियासइज्जा, रयाई खेविज पुराकडाई || ७७६ ॥ शीतोष्णदंशमशकाः स्पर्शाः - तृणस्पर्शादयः, पूर्वत्र चस्येह सम्बन्धादातङ्काश्च - रोगाश्च स्पृशन्ति-उपतापयन्ति, देहं भवत इति गम्यं, आर्षत्वात् कुत्सितं क्रूजति - पीडितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूजः सन् तत्रेति, अकक्करेति पाठे कदाचित् Jain Education tional For Private & Personal Use Only XOXOXOXOX समुद्रपालीयम ध्ययनम् २१ शीतोष्णदंश मशका तङ्कपरीषहसहनता ॥ १७३ ॥ Cotainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408