Book Title: Uttaradhyayanani Purvarddha
Author(s): Chirantanacharya, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥ अथ द्वाविंशं रथनेमीयमध्ययनम् ॥
अनन्तराध्ययने विविक्तचर्योक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुमतो रथनेमिवच्चरणं, तत्र कथञ्चिदुत्पन्नविश्रोतसि. केनापि धृतिश्चाधेयेत्यनेनोच्यते (१०५०)
सोरियपुरंमि नयरे, आसि राया महड्डिए । वसुदेवत्ति नामेणं, रायलक्खणसंजुए ॥ ७८३ ॥ ___ सोरिअ इत्यादिषोडश गाथाः सुगमा एव, नवरं राजलक्षणानि-चक्रस्वस्तिकाङ्कुशादीनि त्यागसत्यशौर्यादीनि वा तैः
रथनेमिसंयुक्तो-युक्तो राजलक्षणसंयुतः, अत एव राजेत्युक्तम् ॥१॥ ७८३॥
Xवक्तव्यतायां तस्स भजा दुवे आसि, रोहिणी देवइ तहा । तासिं दुण्हंपि दो पुत्ता, इट्ठा (जे) रामकेशवा ॥ ७८४ ॥
पूर्व समुद्र
विजयादितस्य-वसुदेवस्य भार्ये द्वे अभूतां, तयो रोहिणीदेवक्योः द्वौ पुत्रौ इष्टौ-वल्लभी, अभूतामितीहापि योज्यते, इह रथनेमि
चरित्रम् वक्तव्यतायां कस्य तीर्थे जातः? इति संशयापनोदाय पूर्व भगवच्चरित्रमाह, तत्रापि तद्विवाहादिषूपयोगिनां केशवादीनां पूर्वोत्पनत्वेन तेषां प्रथममभिधानमिति भावनीयम् ॥ २॥ ७८४ ॥
सोरियपुरंमि नयरे, आसि राया महडिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥ ७८५ ॥ थ पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थ, इह च राजलक्षणानि-छत्रचामरसिंहासनादीनि अपि गृह्यन्ते ॥ ३ ॥ ७८५॥
an
For Private & Personal use only
inbrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408