SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वाविंशं रथनेमीयमध्ययनम् ॥ अनन्तराध्ययने विविक्तचर्योक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुमतो रथनेमिवच्चरणं, तत्र कथञ्चिदुत्पन्नविश्रोतसि. केनापि धृतिश्चाधेयेत्यनेनोच्यते (१०५०) सोरियपुरंमि नयरे, आसि राया महड्डिए । वसुदेवत्ति नामेणं, रायलक्खणसंजुए ॥ ७८३ ॥ ___ सोरिअ इत्यादिषोडश गाथाः सुगमा एव, नवरं राजलक्षणानि-चक्रस्वस्तिकाङ्कुशादीनि त्यागसत्यशौर्यादीनि वा तैः रथनेमिसंयुक्तो-युक्तो राजलक्षणसंयुतः, अत एव राजेत्युक्तम् ॥१॥ ७८३॥ Xवक्तव्यतायां तस्स भजा दुवे आसि, रोहिणी देवइ तहा । तासिं दुण्हंपि दो पुत्ता, इट्ठा (जे) रामकेशवा ॥ ७८४ ॥ पूर्व समुद्र विजयादितस्य-वसुदेवस्य भार्ये द्वे अभूतां, तयो रोहिणीदेवक्योः द्वौ पुत्रौ इष्टौ-वल्लभी, अभूतामितीहापि योज्यते, इह रथनेमि चरित्रम् वक्तव्यतायां कस्य तीर्थे जातः? इति संशयापनोदाय पूर्व भगवच्चरित्रमाह, तत्रापि तद्विवाहादिषूपयोगिनां केशवादीनां पूर्वोत्पनत्वेन तेषां प्रथममभिधानमिति भावनीयम् ॥ २॥ ७८४ ॥ सोरियपुरंमि नयरे, आसि राया महडिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥ ७८५ ॥ थ पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थ, इह च राजलक्षणानि-छत्रचामरसिंहासनादीनि अपि गृह्यन्ते ॥ ३ ॥ ७८५॥ an For Private & Personal use only inbrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy