________________
उत्तरा०
अवचूर्णिः
॥ १७३ ॥
तत्त्ववृत्त्या सम्प्रकरोति-भृशं विधत्ते, अपेर्गम्यत्वात् भिक्षुरपि, अत इत्थमित्थं च तद्गुणोक्तिरिति भावः, यद्वा इत्थमित्थं चात्मानुशासनमिति भावः, अपरं च - भय भैरवा - भयोत्पादकत्वेन भीषणाः तत्र ब्रह्मप्रतिपत्ता उद्यन्ति - उदयं यान्ति, उपसर्गा इति गम्यं, भयभैरवा इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनार्थ, दिव्या मानुष्यका अथवा तैरश्वाः ॥ १६ ॥ ७७४ ॥ परीसहा दुबिसहा अणेगे, सीयंति जत्था बहुकायरा नरा । से तत्थ पत्ते न वहिन पंडिए, संगामसीसे इव नागराया ॥ ७७५ ॥
तथा परीषहा दुर्विषहाः, अनेके उद्यन्तीति सम्बन्धः, सीदन्ति - संयमं प्रति शिथिलीभवन्ति यत्र - येषूपसर्गेषु परीषहेषु च सत्सु सः तत्र तेषु वचनव्यत्ययात्प्राप्तेषु प्राप्तो वा - अनुभवनद्वारेणायातो न व्यथेत्-न सत्त्वाच्चलेत् भिक्षुः सङ्ग्रामशीर्ष इव - युद्धप्रकर्ष इव नागराजो - गजेन्द्रः, आत्मानुशासनपक्षे तु 'से' इत्यथ, तेषु प्राप्तेषु पाप्तो वा न व्यथेत-न सत्वाच्चलेत् बिभीयात् वा भवान् शेषं प्राग्वत् ॥ १७ ॥ ७७५ ॥
सीओसिणा दंसमसगा य फासा, आयंका विविहा फुसति देहं ।
अक्कुक्कुओ (अकक्करे पा० ) तत्थऽहियासइज्जा, रयाई खेविज पुराकडाई || ७७६ ॥
शीतोष्णदंशमशकाः स्पर्शाः - तृणस्पर्शादयः, पूर्वत्र चस्येह सम्बन्धादातङ्काश्च - रोगाश्च स्पृशन्ति-उपतापयन्ति, देहं भवत इति गम्यं, आर्षत्वात् कुत्सितं क्रूजति - पीडितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूजः सन् तत्रेति, अकक्करेति पाठे कदाचित्
Jain Education tional
For Private & Personal Use Only
XOXOXOXOX
समुद्रपालीयम
ध्ययनम् २१
शीतोष्णदंश
मशका
तङ्कपरीषहसहनता
॥ १७३ ॥
Cotainelibrary.org